Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 21
________________ २. श्रमणैः सह तस्मिन् सायङ्काल एव सिद्धार्थो गोविन्दश्च श्रमणैः सह मीलितौ । ततस्तौ श्रमणेभ्यस्तैः सह वासार्थं दीक्षादानार्थं च विज्ञप्तिं कृतवन्तौ । श्रमणा अपि सहर्षं तयोविज्ञप्तिं स्वीकृतवन्तः । सिद्धार्थेन स्वीयवस्त्राणि कस्मैचिद् दुर्गतब्राह्मणाय प्रदत्तानि, स्वयं च केवलं कटिवस्त्रमस्यूतं गैरिकवर्णं च प्रावारमधारयत् । प्रत्यहमेकवारमेव भुङ्क्ते स्म सः, न पुनः कदाऽप्यग्निपक्वं भुङ्क्ते स्म । कदाचित् स पक्षं यावदुपवासान् कदाचिच्च मासोपवासमपि करोति स्म । तस्य देहान्मेदो-मांसादिकं व्यलीयत । तस्य कृशास्वङ्गलिषु नखा दीर्घत्वमभजन् चिबुके च शुष्कं रूक्षं च श्मश्रु आविर्भूतम् । विलक्षणाः स्वप्नास्तस्य विस्फारितनेत्रपटले प्रतिफलन्ति स्म । स्त्रीणां दर्शनेन तस्य दृष्टिहिमशीतला भवति स्म । नगरवीथ्यां च पर्यटत उत्तमनेपथ्यान् जनान् दृष्ट्वा तस्य मुखमोष्ठौ चाऽवधीरणया वक्रीभवन्ति स्म। स बहून् जनान् पश्यति स्म – वाणिज्यरतान् वणिजः, मृगयासक्तान् राज्ञः, मृतमनुशोचतस्तत्स्वजनान्, देहविक्रयं कुर्वतीर्वेश्याः, रुग्णानुपचरतो वैद्यान्, वपनादिमुहूर्तानि निर्णयतो मौहूर्तिकान्, परस्परं स्निह्यतः प्रेमिणः, स्वापत्यानि लालयन्तीर्जननीश्चेत्यादीन् – किन्तु चिन्तयति स्म यदेकतमोऽप्येतेषां दृष्टिपातमपि नाऽर्हति, यतः सर्वमप्येतद् दुर्गन्ध्येवाऽस्ति, उच्छलदसत्यस्य गन्धेन भृतम् । सर्वत्रैन्द्रियिकविषयाणां तुच्छसुखानां विनश्वरसौन्दर्यस्य चेन्द्रजालमेव प्रसृमरमास्ते । सर्वेऽपि सुनिश्चितं विनाशं प्रत्येव धावन्तः सन्ति । विश्वमेतत् कटुकं जीवनं च दुःखमेवाऽऽस्ते ।। सिद्धार्थस्यैयकमेव ध्येयमासीत् – 'शून्यत्वप्राप्तिः' - १४

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175