Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 139
________________ शान्त्योः स्थाने केवलं दुःखं क्लेशश्चैव प्राप्तौ । एवं सत्यपि केवलं पुत्रस्नेहादेव स पुत्रं विना प्राप्यमाणे सुख- शान्ती परित्यज्य पुत्रस्नेहेन प्राप्यमाणी दु:ख- क्लेशावेव स्वीकृतवान् । सिद्धार्थपुत्र उटजे तिष्ठति स्मेति द्वावति वयस्को कार्यविभागं कृतवन्तौ । वासुदेवो नौकासम्बन्धिनं सर्वं कार्यं करोति स्म, सिद्धार्थश्च स्वपुत्रेण सह स्थितः सन् कुटीरे क्षेत्रे च कार्यं करोति स्म । बहून् मासान् यावत् सिद्धार्थो धैर्येण प्रतीक्षितवान्, आशंसयाऽनया यत् – कदाचित्त्वयं बालो ममा ISनुकूलो भविष्यति, मम स्नेहं स्वीकरिष्यति पुनश्च मे प्रत्यर्पयिष्यति । एतच्च बहुकालं यावत् वासुदेवो निरीक्षितवांस्तूष्णींभूय । यदा चैकस्मिन् दिने पुत्रः स्वपितरं कोपेनाऽपमानं कृत्वा दुःखितं कृतवान् द्वे च भाजने भञ्जितवांस्तदा वासुदेवः सायाह्ने स्वमित्रमेकतो नीत्वा कथितवान् 'क्षम्यतां भोः !, किन्त्वहं भवते मित्रत्वेन कथयन्नस्मि । अहं पश्यामि यद् भवान् चिन्ताकुलो दु:खितश्चाऽस्ति । भवतः पुत्रो भवन्तं मां चाऽपि खेदयन्नस्ति । बालः पक्षी ह्ययं भिन्नजीवनेन भिन्ननीडेन चाऽभ्यस्तोऽस्ति । भवानिव सोऽत्र वैभवान्नगराच्च वैराग्येण निर्वेदेन वा नैव समागतोऽस्ति, तेनैतज्जीवनं बलाज्जीवितव्यमापतितमस्ति । मया नद्यै अप्येतदर्थं पृष्टमस्ति, बहुवारम् । किन्तु सा मामुपहसितवती भवन्तं चाऽपि । साऽऽवयोर्मूर्खत्वं दृष्ट्वोच्चैर्हासं कृतवती । भोः ! जलं जले एव गमिष्यति, यौवनं च यौवने । भवतः पुत्रोऽत्र कदाऽपि सुखी नैव भविष्यति । भवानपि नौ पृच्छतु शृणोतु च तत्कथनम्' । I खिन्नः सिद्धार्थस्तस्य करुणार्द्रं मुखं दृष्टवान्, तत्र च प्रभूताः प्रशस्ता वलय आसन् । स मृदुतयोक्तवान् – 'कथमहं तस्मात् पृथग् भवेयम् ? इतोऽपि मे समयं ददातु प्रियवयस्य !, १३२

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175