Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 142
________________ किं वा तस्य सत्यान्वेषणं तं समरक्षत् ? कः पिता कतमो वा गुरुस्तं स्वच्छन्दतया जीवनं जीवन्तं, जीवनं दोषैर्मलिनीकुर्वन्तं, स्वं पापभरेण पूरयन्तं, विषस्य कटु पानं पिबन्तं, प्रान्ते च स्वयमेव स्वीयं पन्थानमन्वेषयन्तं च न्यवारयत् ? किं भवांश्चिन्तयति यत् कश्चनैतस्मात् क्रमाद्रक्षितः स्यात् ? यदि परं भवतो लघुपुत्रः, यतो भवांस्तं दुःखेभ्यः क्लेशेभ्यो मोहाच्च रक्षितुमिच्छतीत्यतः ? नैव सिद्धार्थ ! नैव, यदि भवान् स्वपुत्रस्य कृते दशवारमपि मृत्वा जन्म धारयिष्यति तथाऽपि तस्य नियतिमणुमात्रमपि परावर्तयितुं नैव शक्ष्यति !' । वासुदेवो ह्येतावन्मात्रं न कदाप्युक्तवानासीत् । सिद्धार्थस्तस्योपकारं मत्वा दुःखितहृदयेन कुटीरं प्रविशत्, किन्तु निद्रातुं शक्तो नाऽभवत् । स्वयमचिन्तितमज्ञातं च न किमपि वासुदेवेन कथितमासीत् । किन्तु ज्ञानादपि पुत्रप्रेम, पुत्रासक्तिः, पुत्रवियोगभयं च बलवत्तरमासीत् । न हि कदाचित् स कस्यचित्कृते स्वहृदयमेवं हारितवानासीत्, न हि कञ्चनाऽपि स एवंरीत्याऽन्धीभूय, दुःखीभूय, हताशीभूयाऽथाऽपि च सुखितम्मन्यः प्रीतवानासीत् । स स्वमित्रस्योपदेशं स्वीकर्तुं नैवाऽशक्नोत्, स्वपुत्रं च परिहर्तुं शक्तो नैवाऽऽसीत् । स स्वमाज्ञापयितुं स्वपुत्रमन्वज्ञापयदिव, स्वं प्रत्यविनीतं च भवितुमप्यन्वमन्यतेव । स तूष्णीभूय धैर्येण प्रतीक्षामकरोत्, प्रत्यहं च मैत्र्या धैर्यस्य च मूकं युद्धं प्रारभत । वासुदेवोऽपि मौनतया प्रतीक्षामकरोत्, सस्नेहं सद्भावेन क्षमाशीलतया च । द्वे अपि मित्रे धैर्यस्य तु स्वामिनावास्ताम् । एकदा, यदा बालकस्य मुखं तं कमलामस्मारयत् तदा, सहसैव सिद्धार्थो बहुकालपूर्वं कमला तं यत्कथितवत्यासीत् तदस्मरत् । 'भवान् न कस्मिंश्चिदपि स्निह्येत् कदाऽपि' इति सा तं कथितवती, सोऽपि च तत् स्वीकृतवानाऽऽसीत् । स स्वं १३५

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175