Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 174
________________ कालोऽस्ति न वेत्यतः परं सर्वथाऽजानानः, इदमपरोक्षं ज्ञानं क्षणमात्रस्थितिकमुत वर्षशतं यावत् स्थितमित्यप्यनवगच्छन्, अयं सिद्धार्थोऽस्ति किं वा गौतमोऽस्तीत्यनवबुध्यमानः, स्वमन्यांश्च प्रति सर्वथाऽनवधानः, दिव्यानुग्रहशरेण गाढं विद्धस्ततश्चाऽवर्णनीयसुखमग्नः, गहनानन्दमग्न उदात्तभावश्च गोविन्दः सिद्धार्थस्य प्रशान्तवदनस्य पुरतो बहुकालं यावत् तथैवाऽवनम्य स्थितवान्, यत् स इदमिदानीमेव चुम्बितवानासीत्, यच्चाऽतीतानागतानां सर्वेषामप्याकाराणामेकमास्पदं जातमासीत् । यदा चैते सहस्रशः आकारास्तान् प्रतिबिम्बयंश्चाऽयं सहस्रपुटो दर्पणो विलीना जातास्तदाऽपि तस्य मुखमुद्रा तु तथैव विलसन्ती आसीत् । स प्रशान्तं, मृदु, सोपहासं, सर्वथा च भगवतो बुद्धस्य सदृशं स्मितं कुर्वन्नासीत् ।। गोविन्दस्तं प्रति प्रणतिं कृतवान् । तस्य वृद्धे नयने मन्दमन्दमनियन्त्र्याणि अश्रूणि स्रवतः स्म । स दिव्यप्रेमानुभूत्या विनयपूर्णादरभावेन चाऽऽक्रान्तोऽभवत् । स भूमौ शिरः स्थापयित्वा सर्वथा स्थिरतयोपविष्टस्य सिद्धार्थस्य पुरतो वन्दनं कृतवान् – यस्य स्मितं, तस्य जीवने यत्र कुत्राऽपि तेन प्रेमानुभूतिः कृताऽऽसीत्, यत्किमपि च मूल्यवत् पवित्रं चाऽऽसीत्, तत् सर्वमपि स्मारितवत् । १६७

Loading...

Page Navigation
1 ... 172 173 174 175