Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
वांश्च मृदुतया – 'मया ज्ञातमासीदेतत्, किं भवान् वनं गच्छति किल ?'
'आम् अहं वनं गच्छामि, अहं समग्रस्याऽपि वस्तुजातस्यैक्यं प्रति गच्छन्नस्मि' - प्रोज्ज्वलवदनो वासुदेवोऽवदत् ।
एवं च स गतवान् । सिद्धार्थस्तं गच्छन्तं समवलोकितवान्, स गच्छन्तं तं महताऽऽनन्देन गौरवेण चाऽवलोकितवान् । तस्य प्रशान्तान् पादन्यासान्, देदीप्यमानं वदनं, प्रकाशमयं च सर्वमपि व्यक्तित्वं सोऽवलोकयन्नतिष्ठत् ।
१५२

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175