Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 84
________________ तेषामन्यतमोऽत्र विषये सर्वथा परिपूर्णोऽस्ति । अहं तं न कदाऽपि विस्मर्तुं शक्तः । सोऽस्ति गौतमः - जगद्विश्रुतो भगवान् बुद्धः, यो वितरति तादृशं बोधम् । सहस्रशो युवकास्तस्योपदेशं प्रत्यहं शृण्वन्ति तस्याऽनुशासनं च प्रतिक्षणं पालयन्ति । किन्तु ते सर्वेऽपि हि सन्ति पतितपर्णतुल्याः, तेषामन्तःकरणे प्रज्ञायाः प्रकाशो नाऽस्ति नाऽपि चाऽऽन्तरो मार्गदर्शकः' । कमला तं विलोकयन्ती स्मितं कृतवती, 'भवान् पुनरपि तस्य विषये वदति' - सोक्तवती । 'भवान् पुनरपि श्रमणवद् विचारयन्नस्ति' । सिद्धार्थस्तूष्णीं भूतः । ततस्ताभ्यां प्रेमकेलिरादृता । कमलाः तस्याश्चत्वारिंशदधिकप्रकारेषु पारङ्गताऽऽसीत् । तेषामन्यतम एव प्रकारस्ताभ्यां समारब्धः । कमलायाः शरीरं चित्रकस्येव चपलं व्याधस्य धनुरिव च सुनम्यमासीत् । यः कोऽपि तत्सकाशात् प्रेमक्रीडां शिक्षेत स बहुविधानि सौख्यानि प्राप्तुं रहस्यानि चाऽवगन्तुं शक्नोति स्म । सा सिद्धार्थेन सह चिरायाऽक्रीडत्, सा तं निराकृतवती, अभिभूतवती, आक्रान्तवती, पराजितवती, स्वीयप्रभुत्वेन हृष्टा जाता च । प्रान्ते स तया वशीकृतः सन् श्रान्तो भूत्वा तत्पार्वे शयितवान् । कमला हि किञ्चिदवनम्य तस्य वदनं श्रान्ते च नयने निरीक्षितवती। _ 'अद्ययावत् मया ये प्रेमिणः प्राप्तास्तेषु भवानेव श्रेष्ठः' - सा विचारयन्तीव कथितवती । 'भवान् अन्येभ्यो दृढतरोऽधिकचपलोऽधिकानुकूलश्च । भवता मम कला सुष्ठ शिक्षिताऽस्ति । सिद्धार्थ ! यदाऽहं वयस्का भविष्यामि तदा, विचारयामि यद् भवत्तोऽपत्यं प्राप्स्यामि । किन्त्वेतावताऽपि भवान् श्रमण एव । भवान् वस्तुतो मां नैव प्रीणाति - भवान् कमपि नैव प्रीणाति ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175