Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 82
________________ यदि कदाचित् कामस्वामी तत्पार्वे समागत्य स्वीयसमस्या वर्णयति स्म कस्यचिद् व्यवहारस्य कृते वोपालभते स्म तदा स सकर्णतया सावधानं च शृणोति स्म, तत्कथने विस्मयं प्रदर्शयति स्म, तद् बोद्धं प्रयतते स्म, यत्र चाऽऽवश्यकं तत्र किञ्चिद् अनुमनुते स्माऽपि, ततश्च प्रयोजनवशादागतेनाऽऽगन्तुकेन सह संलपितुमारभते स्म । ___बहवो जनास्तत्समीपमागच्छन्ति स्म, केचन वाणिज्यार्थं, केचन तं वञ्चयितुं, केचन तं श्रोतुं, केचन तस्य सहानुभूति प्राप्तुं, केचन च तस्य मार्गदर्शनं प्राप्तुम् । स मार्गदर्शनं करोति स्म, सहानुभूतिं दर्शयति स्म, उपायनानि प्रदत्ते स्म, किञ्चिद् वञ्चितोऽपि भवति स्म, तथाऽस्याः सर्वस्या अपि क्रीडाया विषये तत्क्रीडकानां च जनानां भावनाविषये स तयैव रीत्या विचारयति स्म यया रीत्या स पूर्वं देवानां ब्राह्मणानां च विषये विचारयन्नासीत् । कदाचित् तस्याऽन्तःकरणे एको मृदुः सौम्यो ध्वनिः श्रूयते स्म यस्तं निभृतं स्मारयति स्म निभृतमेव चाऽधिक्षिपति स्म, तथा निभृतं यथा स कष्टेन तं शृणोति स्म । ततः सहसैव सोऽपश्यत् यत् – सोऽपरिचितं जीवनं यापयति । बहूनि कार्याणि स क्रीडार्थमेव क्रीडारूपेणैव वा करोति, तथा यद्यपि स प्रसन्नोऽस्ति यथाकालं भौतिकसुखं चाऽप्यनुभवति, तथाऽपि सत्यजीवनं तु ततो वियुक्तमिवाऽस्पृशदिव प्रवहति । यथा कश्चन क्रीडकः स्वीयकन्दुकेन क्रीडति तथा स वाणिज्येन क्रीडन्नासीत्, तथैव च जनैः सह व्यवहरन्नासीत्। स तानवलोकयति स्म, तेषामाचरणाद् विनोदमपि प्राप्नोति स्म । एवंस्थितेऽपि तस्य हृदयं, तस्य मूलः स्वभावस्तत्र लीनो नाऽऽसीत् । तस्य मूलं स्वत्वं तु कुत्रचिदन्यत्रैव बम्भ्रम्यते स्माऽदृश्यतया, तस्य स्वत्वस्य तदीयजीवनेन सह न कोऽप्यनुबन्ध आसीत् ।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175