Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 131
________________ यदा यात्रिकाणां गणो वासुदेवनौकातोऽनतिदूरे आसीत् तदैव लघुसिद्धार्थः स्वमातरमवदद् यत् स विश्रान्तुमिच्छतीति । कमला स्वयमपि श्रान्ताऽऽसीत् । अतः स बालकाय कदलीफलं खादितुं दत्त्वा स्वयं चैकस्य वृक्षस्याऽधस्तान्नेत्रे निमील्य किञ्चिदिव शयिता। किन्तु, सहसैव तस्या मुखाच्चीत्कारो निर्गतः । एतच्छ्रुत्वा चकितो बालो यावन्मातुर्मुखं विलोकितवान् तावत् तद् भयेन विच्छायं दृष्टम् । तावता च तस्या वस्त्रेभ्यः कश्चन लघुः कृष्णसर्पो निर्गतो येन कमला दष्टाऽऽसीत् । ततो भयभीतौ तौ द्वावपि ततो धावित्वा यात्रिकगणेन सम्मिलितौ । यदा च तौ घट्ट प्राप्तौ तदैव कमलाऽग्रे गन्तुमशक्ता सती तत्रैव पतिता । एतेन भीतो बालको मातरं परिष्वज्य सहायार्थमुच्चैरारटितवान्। साऽपि चोच्चै रुदती सहायार्थं पूत्कृतवती । तयोश्चाऽऽरावा नौकासन्नस्थितेन वासुदेवेन श्रुताः । स झटिति तत्राऽऽगत्य कमलां स्वीयहस्ताभ्यां वहन् कुटीरं प्रति गतः । बालकोऽपि तत्पृष्ठत एव धावितः, शीघ्रं च ते उटजं प्राप्ताः । इन्धनानि प्रज्वालयन् सिद्धार्थस्तत्रैवाऽऽसीत् । तेन मुखमुन्नम्य प्रथमं तु बालकवदनं दृष्टम् । दृष्टमात्रे च तस्मिन् तन्मनसि किञ्चित् स्मरणमभवत् । ततश्च स वासुदेवहस्तयोः स्थितां कमलां दृष्टवान् शीघ्रमेव च तां निःसञ्जामपि प्रत्यभिज्ञातवान् । ततश्च तेन ज्ञातं यत् स बालस्तु स्वस्यैवाऽपत्यमासीत् यन्मुखं तस्य किञ्चित् स्मारितवत् । तस्य हृदयस्पन्दनानि वर्धितानि । ___कमलाया व्रणं जलेन स्वच्छीकृत्यौषधेन पूरितम् । किन्तु तत् कृष्णवर्णं जातमासीत्, तस्याः शरीरमपि च शोथमयं सञ्जातमासीत् । तस्या मुखे चेतनप्रदमौषधं प्रक्षिप्तं, तेन साऽल्पवेलायामेव ससञ्ज्ञा जाता । सा कुटीरे सिद्धार्थशय्यायामेव १२४

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175