Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 12
________________ विवृति-दीपिकालङ्कृता । जगदीशी 1 द्यभिन्नाया प्रतियोगिताया एवानवच्छेदकत्वस्य विवचितत्वात् । न च विवृतिः तथा प्रतियोगितानवच्छेदकत्वानुसरणेऽपि तत्रैव महानसीयवह्नयभावमादायाव्याप्तिर - स्त्येवेत्यर्थः । निरुक्तामव्याप्तिमपाकर्तुमाह- साध्यतावच्छेदकेति । उभयावच्छेद्यभिन्नायाः=उभयानवच्छिन्नायाः, प्रतियोगितायाः = प्रतियोगिव्यधिकरण हेतु समानाधिकरणाभावीय प्रतियोगितायाः, विवक्षितत्वात् = साध्यतावच्छेदके विवक्षणीयत्वात्, एवञ्च साध्यतावच्छेदक-तदितरोभयानवच्छिन्ना या हेतुसमानाधिकरणप्रतियोगिव्यधिकरणाभावीया प्रतियोगिता तदनवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नाधिकरणनिरूपितवृत्तित्त्वं हेतुनिष्ठं व्याप्तिरित्यर्थपर्यवसानाद्वह्निमान्धूमादित्यादौ महानसीयवह्वयभावादेर्वह्नित्वादिरूपसाध्यतावच्छेदक - तदितर महानसीयत्वैतदुभयधर्मा - वच्छिन्नप्रतियोगिताकतया लक्षणाघटकत्त्वाद्वह्नित्व- तदितरोभयानवच्छिन्न प्रतियोगिताकं घटाभावमादाय लक्षणसमन्वयान्नाव्याप्तिरिति भावः । अन्रोभयधर्मानवच्छिन्नत्वमात्रस्य तादृशप्रतियोगिताविशेषणत्वे महानसीय वह्निमान्धूमादित्यत्रातिव्याप्तिः, महानसीयवह्निनिष्ठप्रतियोगिताया महानसीयत्व - वह्नित्त्वोभयधर्मावच्छिन्नतया महानसीयवह्नयभावस्य लक्षणाघटकतया घटाभावस्यैव लक्षणघटकत्वसम्भवात् । एवं साध्यतावच्छेदकेत रानवच्छिन्नत्वमात्रस्य तादृशप्रति - योगिताविशेषणत्त्वे वह्निमान्धूमादित्यादौ सर्वत्रासम्भवः, घटत्वपटत्वादेः सर्वस्यैव साध्यतावच्छेदकेतरधर्मत्वेन धर्त्तु ं शक्यतया सद्धेतौ कस्याप्यभावस्य लक्षणघटकत्वासम्भवात् साध्यतावच्छेदका नवच्छिन्नत्वमात्रस्य च तादृशप्रतियोगिता विशेषणत्वे धूमवान्वह्नेरित्यादावतिव्याप्तिः, धूमाभावीयधूमनिष्ठप्रतियोगिताया धूमत्वरूपसाध्यतावच्छेदकावच्छिन्नतया धूमाभावस्य लक्षणाऽघटकत्वादिति वदन्ति । " निरुक्तनिवेशे प्रमेयवत्त्वान्धूमादित्यत्र साध्यतावच्छेदकप्रमेयेतराप्रसिध्याऽव्याप्तिमाशङ्कते - नचेति । प्रमेयवत्वान्धूमादित्यत्र धूमाधिकरणे पर्वते प्रमेयवतो दीपिका विवक्षितत्वादिति । ननु स्वाश्रयप्रतियोगिकत्व, स्वाश्रयसामानाधिकरण्योसाध्यतावच्छेदकविशिष्टान्याभावाप्रतियोगिसाध्य सामानाधिकरण्यस्यैव भयसम्बन्धेन अन व्याप्तित्वसम्भवे साध्यतावच्छेदक- तदितरोभयधर्मानवच्छिन्नत्वादिनिवेशनं, वच्छेदकत्वानुसरणं, अवच्छेदकतायां निरवच्छिन्नत्वादिविशेषणं च व्यर्थमिति, नच प्रमेयवान् वाच्यत्वादित्यत्राव्याप्तिः, घटपटादेः कस्याप्यभावस्य लक्षणाघट. कत्वात् तत्र प्रमेयत्वाश्रय घटादिप्रतियोगिकत्वस्य, प्रमेयत्वाश्नयपटादिसामाना

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 286