Book Title: Shripal Charitram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ सो सेणियनरनाहो, अभयकुमारेण विहियउच्छाहो । तिहुयणपयडपयावो, पालइ रज्जं च धम्मं च ॥ ९॥ एयंमि पुणो समए, सुरमहिओ बद्धमाणतित्थयरो । विहरतो संपत्तो, रायगिहासन्ननयरंमि ॥ १० ॥ पेसेइ पढमसीसं, जिटुं गणहारिणं गुणगरिष्टुं । सिरिगोयमं मुर्णिदं, रायगिहलोयलाभत्थं ॥ ११ ॥ सोलहजिणाएसो, संपत्तो रायगिहपुरोजाणे । कइवयमुणिपरियरिओ, गोयमसामी समोसरिओ ॥ १२ ॥ तस्सागमणं सोउं, सयलो नरनाहपमुहपुरलोओ। नियनियरिद्धिसमेओ, समागओ झत्ति उज्जाणे ॥ १३ ॥ स श्रेणिकनरनाथः अभयकुमारेण विहितः-कृत उत्साहो यस्य सः, पुनः ?-त्रिभुवने प्रकटः प्रतापो यस्य स एवंविधः सन् राज्यं च धर्म च पालयति ॥ ९॥ एतस्मिन् समये-अवसरे पुनः सुरैः-देवैः महितः-पूजितः श्रीवर्द्धमानतीर्थङ्करः विचरन् । राजगृहनगरस्य आसन्ने -समीपस्थे कस्मिंश्चिन्नगरे सम्प्राप्तः ॥ १०॥ ततो भगवान् स्वकीयं प्रथमशिष्यं ज्येष्ठं-वृद्धं गणधारिणंगणधरं, पुनः? गुणैगरिष्ठं ईदृशं श्रीगौतमं मुनीन्द्रं राजगृहनगरलोकस्य लाभार्थ प्रेषयति ॥११॥ स गौतमस्वामी लब्धः-प्राप्तः जिनादेशो-जिनाज्ञा येन सः एवंविधः सन् राजगृहपुरोधाने सम्प्राप्तः, कतिपयैः-कियद्भिर्मुनिभिः परिकरितः परिवृतः तत्र समवसृतः ॥ १२ ॥ तस्य-गौतमस्वामिन आगमनं श्रुत्वा सकलः-समस्तः नरनाथप्रमुखो-राजादिर्लोकः निजनिजऋद्धया समेतः-संयुक्तः झटिति शीघ्रं उद्याने समागतः ॥१३॥ Jain Educational For Private Personel Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 3132