________________
सो सेणियनरनाहो, अभयकुमारेण विहियउच्छाहो । तिहुयणपयडपयावो, पालइ रज्जं च धम्मं च ॥ ९॥ एयंमि पुणो समए, सुरमहिओ बद्धमाणतित्थयरो । विहरतो संपत्तो, रायगिहासन्ननयरंमि ॥ १० ॥ पेसेइ पढमसीसं, जिटुं गणहारिणं गुणगरिष्टुं । सिरिगोयमं मुर्णिदं, रायगिहलोयलाभत्थं ॥ ११ ॥ सोलहजिणाएसो, संपत्तो रायगिहपुरोजाणे । कइवयमुणिपरियरिओ, गोयमसामी समोसरिओ ॥ १२ ॥ तस्सागमणं सोउं, सयलो नरनाहपमुहपुरलोओ। नियनियरिद्धिसमेओ, समागओ झत्ति उज्जाणे ॥ १३ ॥
स श्रेणिकनरनाथः अभयकुमारेण विहितः-कृत उत्साहो यस्य सः, पुनः ?-त्रिभुवने प्रकटः प्रतापो यस्य स एवंविधः सन् राज्यं च धर्म च पालयति ॥ ९॥ एतस्मिन् समये-अवसरे पुनः सुरैः-देवैः महितः-पूजितः श्रीवर्द्धमानतीर्थङ्करः विचरन् । राजगृहनगरस्य आसन्ने -समीपस्थे कस्मिंश्चिन्नगरे सम्प्राप्तः ॥ १०॥ ततो भगवान् स्वकीयं प्रथमशिष्यं ज्येष्ठं-वृद्धं गणधारिणंगणधरं, पुनः? गुणैगरिष्ठं ईदृशं श्रीगौतमं मुनीन्द्रं राजगृहनगरलोकस्य लाभार्थ प्रेषयति ॥११॥ स गौतमस्वामी लब्धः-प्राप्तः जिनादेशो-जिनाज्ञा येन सः एवंविधः सन् राजगृहपुरोधाने सम्प्राप्तः, कतिपयैः-कियद्भिर्मुनिभिः परिकरितः परिवृतः तत्र समवसृतः ॥ १२ ॥ तस्य-गौतमस्वामिन आगमनं श्रुत्वा सकलः-समस्तः नरनाथप्रमुखो-राजादिर्लोकः निजनिजऋद्धया समेतः-संयुक्तः झटिति शीघ्रं उद्याने समागतः ॥१३॥
Jain Educational
For Private
Personel Use Only
w.jainelibrary.org