________________
भत्तिभरनमिरसुरिंदीवद-वंदिअपय पढमजिणंदचंद । चंदुज्जलकेवलकित्तिपूरपूरियभुवणंतरवेरिसूर ॥ १७४ ॥ सूरुव्व हरिअतमतिमिर देव देवासुरखेयरविहिअसेव । सेवागयगयमयरायपायपायडियपणामह कयपसाय ॥ १७५ ॥
।
भक्तिभरण-भक्तिप्रकर्षेण नम्राणि-नमनशीलानि यानि सुरेन्द्रवृन्दानि-देवेन्द्रसमूहास्तैर्वन्दितौ पादौ-चरणौ यस्य स तत्सम्बोधने हे भक्तिभर पुनर्हे प्रथमजिनेन्द्र ! चन्द्र इव चन्द्र आल्हादकः, पुनश्चन्द्रवत् उज्ज्वलो-धवलः केवल:-सम्पूर्णो यः कीर्चिपूरो-यश:समूहस्तेन पूरितं-भरितं भुवनं-लोकत्रयं येन स तत्सम्बुद्धौ चन्द्रोच० पुनः आन्तरा-मध्यवर्त्तिनो ये वैरिणः-कामक्रोधादयस्तेषां जये शूरस्तत्सम्बोधने हे० ॥ १७४ ॥ पुनः सूरः-सूर्यः स इव हृतं-दूरीकृतं तमोऽज्ञानमेव तिमिरं-अन्धकारं येन स तत्सम्बुद्धौ हे हृततमस्तिमिर! हे देव! पुनः देवाः-वैमानिकादयो असुरा-भवनपत्यादयः खेचरा-विद्याधरास्तैर्विहिता--कृता सेवा यस्य सः तत्सम्बोधने हे देवा!, सेवार्थमागताः-सेवागताः गतो मदो येषां ते गतमदाः-परित्यक्ताहंकारा इत्यर्थः एवंविधा ये राजानस्तैः पादयोः प्रकटितः प्रणामो-नमस्कारो यस्य स तत्सम्बोधने हे सेवा० पुनः कृतः प्रसादो येन स तत्सम्बोधने हे कृतप्रसाद ! ॥१७५ ॥
For Private
Personel Use Only
aw.jainelibrary.org