Book Title: Shastravartta Samucchaya Author(s): Haribhadrasuri, Hargovinddas Pandit Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ Jain Education प्रस्तावना । 410104 बुद्धः शुद्धो न शुद्धोदनतनयनयो नास्तिको नास्तदोषो नो न्यायो न्यायमार्गो विमलमतिमता नापि वैशेषिकी दृक् । प्रेक्षाक्षेत्रं न सांख्यं न सततमहतं शासनं जैमिनीयं गम्भीरप्रौढतर्फे विलसति सति सद्वामये हारिभद्रे ॥ १ ॥ एतस्य सांप्रतमत्रभवतां भवतामभिमुखीकर्तुं प्रस्तुतस्य ग्रन्थस्य विनिर्माता स एव श्रीमान हरिभद्रसूरिः, यस्य द्विजकुललब्धजन्मनोऽपि, अभिनिविष्टबुद्धीनां स्वप्नेऽप्यसुनिर्वहया ज्ञानाभिमानाविर्भूतया प्रतिज्ञया 'दूषणान्यपि तत्तत्कारणकलापकलितानि भूषणत्वेन परिणमन्ते' इत्यबाधितसिद्धान्तमिव सत्यापयतः समवाप्तभगवदर्हद्धर्मस्य तत्तत्प्रभावककार्यप्रादुर्भावकतयाऽर्हच्छासनसौधावष्टम्भस्तम्भत्वेन चतुश्चत्वारिंशदधिकाया प्रन्थानां चतुर्दशशत्या विधायकत्वेन च समुपलब्धात्मलाभा सुकीर्तिनर्तकी जगद्रङ्गमण्डपेऽय यावद् नरीनृत्यते । पूर्वस्मिन्ननेहसि षट्त्स्वपि दर्शनेषु स्वस्वदर्शनग्रन्थप्रणयनपद्धतिरधिकारिवर्गभेदेन प्रायो विभागत्रयविभक्ताऽभवदिति विभाव्यते ; - ( १ ) गद्याकारेण “अल्पाक्षरमसंदिग्धम् ०" इत्यादिलक्षणलक्षितसूत्रसमूहशालिनी, (२) पयप्रकारेणानुष्टुतवृन्दात्मना कारिकामयी, (३) गद्यपद्य१ “अल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ १ ॥ " For Private & Personal Use Only w.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 902