SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Jain Education प्रस्तावना । 410104 बुद्धः शुद्धो न शुद्धोदनतनयनयो नास्तिको नास्तदोषो नो न्यायो न्यायमार्गो विमलमतिमता नापि वैशेषिकी दृक् । प्रेक्षाक्षेत्रं न सांख्यं न सततमहतं शासनं जैमिनीयं गम्भीरप्रौढतर्फे विलसति सति सद्वामये हारिभद्रे ॥ १ ॥ एतस्य सांप्रतमत्रभवतां भवतामभिमुखीकर्तुं प्रस्तुतस्य ग्रन्थस्य विनिर्माता स एव श्रीमान हरिभद्रसूरिः, यस्य द्विजकुललब्धजन्मनोऽपि, अभिनिविष्टबुद्धीनां स्वप्नेऽप्यसुनिर्वहया ज्ञानाभिमानाविर्भूतया प्रतिज्ञया 'दूषणान्यपि तत्तत्कारणकलापकलितानि भूषणत्वेन परिणमन्ते' इत्यबाधितसिद्धान्तमिव सत्यापयतः समवाप्तभगवदर्हद्धर्मस्य तत्तत्प्रभावककार्यप्रादुर्भावकतयाऽर्हच्छासनसौधावष्टम्भस्तम्भत्वेन चतुश्चत्वारिंशदधिकाया प्रन्थानां चतुर्दशशत्या विधायकत्वेन च समुपलब्धात्मलाभा सुकीर्तिनर्तकी जगद्रङ्गमण्डपेऽय यावद् नरीनृत्यते । पूर्वस्मिन्ननेहसि षट्त्स्वपि दर्शनेषु स्वस्वदर्शनग्रन्थप्रणयनपद्धतिरधिकारिवर्गभेदेन प्रायो विभागत्रयविभक्ताऽभवदिति विभाव्यते ; - ( १ ) गद्याकारेण “अल्पाक्षरमसंदिग्धम् ०" इत्यादिलक्षणलक्षितसूत्रसमूहशालिनी, (२) पयप्रकारेणानुष्टुतवृन्दात्मना कारिकामयी, (३) गद्यपद्य१ “अल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ १ ॥ " For Private & Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy