SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ शा० स० प्रस्ता० ॥१॥ मयोभयात्मा गद्यबहुला पद्यप्रचुरा वा प्रकीर्णा च । तत्राद्यायां निजाभीष्टतत्त्वस्वरूपमात्रप्रकाशनम् प्रकटतया वा कचिदपरसिद्धान्ता- पकर्षसूचनं वा प्रस्तूयते । द्वितीयायां युक्तिसूक्तिविभूषितया किञ्चिद्विस्तृतपद्धत्या पराभिमतमन्तव्यनिराकरणम् , स्वाभीप्सितानां च तेषां स्फुटीकरणं विधीयते । तृतीयस्यां पुनरेकमेव कञ्चित् प्रतिनियतविषयम् , बहून् वा तान् कक्षाद्वयव्युत्पन्नानधिकारिणोऽपेक्ष्य याक्द् बुद्धिबलोदयं परपक्षप्रतिक्षेपः स्वपक्षसिद्धिश्च सुसूक्ष्मविचारभरावगाहिन्या प्रतिपादनप्रणाल्या प्रकटीक्रियते । सत्यप्यस्मिन् श्रेणित्रितये प्रथमतः प्रपठनीयान् प्रथमकोटिप्रविष्टान् ग्रन्थानधीतवतः, व्युत्पत्तिं च तेष्वासादितवतः, अथ च ततोऽपि | विशेषमभिलषतोऽधिकारिणः समाश्रित्य परोपकारसारोऽयं ग्रन्थकारो द्वितीयपद्धतिमलंकुर्वन्तं संस्कृतपद्यात्मकं ग्रन्थमिममनुष्टुप्छन्दसां सप्तभिः शतैर्विनिरमास्त, नाम चास्य 'प्रमातारः, समवगम्य ग्रन्थनानोऽर्थशून्यतां स्वप्रवृत्तिप्रतिबन्धं मा विधिषत, प्रमाय वा याथार्थ्यमिन्द्रगोपादिष्विवातथ्यनामस्वन्यग्रन्थेष्विव ग्रन्थेऽस्मिन् प्रवृत्तिमारभमाणाः फलावाप्तिपराङ्मुखा मा जनिषत, मा तनिषत च संजातानाश्वासास्तत्कर्तरि विप्रतारकत्वकलङ्कशङ्काम्' इति सुदूरमवलोकमानः सुशकानुष्टानयोरप्यर्थशून्याऽयथार्थयोराद्वयोर्व्यवच्छेदेन सततमौचितीमावहत् प्रतिपन्नार्थतथात्वाव्यभिचारित्वं "शास्त्रवार्तासमुच्चयः" इति समयुक्त, व्यभक्त च ग्रन्थमेनं स्तबकाकारेष्वेकादशसु विभागेषु । एतेन 'एतेनैव ग्रन्थकृताऽन्येऽपि दर्शनविषयमिममधिकृत्यानेकेऽनेकान्तजयपताकादयोऽद्यापि प्रतीतिपथमवतरन्तो ग्रन्था अग्रन्थिषत, इति तत एव विषयस्यास्य निर्णयात् पिष्टपेषणमिवानुकुर्वन्नयं १“शतानि सप्त श्लोकानामनुष्टुप्छन्दसां कृतः । आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयः" (स० ११, श्लो० ५६) इति ग्रन्थकत्रैव प्रन्थान्ते प्रतिपादनात् । २ यद्यपि मूलप्रन्थे खोपाटीकायां च नायं विभाग उपलब्धचरः, तथापि स्याद्वादकल्पलतायां तद्विलोकनेन अन्यकृतोऽपि स विभागोऽनुमत इति संभाव्यते। For Private & Personal Use Only Mainelibrary.org Jain Education
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy