________________
शा० स०
प्रस्ता०
॥१॥
मयोभयात्मा गद्यबहुला पद्यप्रचुरा वा प्रकीर्णा च । तत्राद्यायां निजाभीष्टतत्त्वस्वरूपमात्रप्रकाशनम् प्रकटतया वा कचिदपरसिद्धान्ता- पकर्षसूचनं वा प्रस्तूयते । द्वितीयायां युक्तिसूक्तिविभूषितया किञ्चिद्विस्तृतपद्धत्या पराभिमतमन्तव्यनिराकरणम् , स्वाभीप्सितानां च तेषां स्फुटीकरणं विधीयते । तृतीयस्यां पुनरेकमेव कञ्चित् प्रतिनियतविषयम् , बहून् वा तान् कक्षाद्वयव्युत्पन्नानधिकारिणोऽपेक्ष्य याक्द् बुद्धिबलोदयं परपक्षप्रतिक्षेपः स्वपक्षसिद्धिश्च सुसूक्ष्मविचारभरावगाहिन्या प्रतिपादनप्रणाल्या प्रकटीक्रियते ।
सत्यप्यस्मिन् श्रेणित्रितये प्रथमतः प्रपठनीयान् प्रथमकोटिप्रविष्टान् ग्रन्थानधीतवतः, व्युत्पत्तिं च तेष्वासादितवतः, अथ च ततोऽपि | विशेषमभिलषतोऽधिकारिणः समाश्रित्य परोपकारसारोऽयं ग्रन्थकारो द्वितीयपद्धतिमलंकुर्वन्तं संस्कृतपद्यात्मकं ग्रन्थमिममनुष्टुप्छन्दसां सप्तभिः शतैर्विनिरमास्त, नाम चास्य 'प्रमातारः, समवगम्य ग्रन्थनानोऽर्थशून्यतां स्वप्रवृत्तिप्रतिबन्धं मा विधिषत, प्रमाय वा याथार्थ्यमिन्द्रगोपादिष्विवातथ्यनामस्वन्यग्रन्थेष्विव ग्रन्थेऽस्मिन् प्रवृत्तिमारभमाणाः फलावाप्तिपराङ्मुखा मा जनिषत, मा तनिषत च संजातानाश्वासास्तत्कर्तरि विप्रतारकत्वकलङ्कशङ्काम्' इति सुदूरमवलोकमानः सुशकानुष्टानयोरप्यर्थशून्याऽयथार्थयोराद्वयोर्व्यवच्छेदेन सततमौचितीमावहत् प्रतिपन्नार्थतथात्वाव्यभिचारित्वं "शास्त्रवार्तासमुच्चयः" इति समयुक्त, व्यभक्त च ग्रन्थमेनं स्तबकाकारेष्वेकादशसु विभागेषु । एतेन 'एतेनैव ग्रन्थकृताऽन्येऽपि दर्शनविषयमिममधिकृत्यानेकेऽनेकान्तजयपताकादयोऽद्यापि प्रतीतिपथमवतरन्तो ग्रन्था अग्रन्थिषत, इति तत एव विषयस्यास्य निर्णयात् पिष्टपेषणमिवानुकुर्वन्नयं
१“शतानि सप्त श्लोकानामनुष्टुप्छन्दसां कृतः । आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयः" (स० ११, श्लो० ५६)
इति ग्रन्थकत्रैव प्रन्थान्ते प्रतिपादनात् । २ यद्यपि मूलप्रन्थे खोपाटीकायां च नायं विभाग उपलब्धचरः, तथापि स्याद्वादकल्पलतायां तद्विलोकनेन अन्यकृतोऽपि स विभागोऽनुमत इति संभाव्यते।
For Private & Personal Use Only
Mainelibrary.org
Jain Education