Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ शा०स० प्रस्ता० ॥२॥ यथा परदर्शनानि विगतदृष्टेष्टविरोधादिकल्मषाणि भवितुमर्हन्ति तथा पौर्वापर्येणानुसंदधानः, सच्यार तभगवदर्हदर्शनसंगतिशालीनि च तानि भाविदधानः बिरलमन्यत्रोपलभ्यमानाभिर्युक्तिततिभिः संपादयति निर्बाधं स्वमन्तव्यं सिद्विसौधाभ्यासधैर्यधारि सौन्दर्यभाजा वचनविन्यासेन । | प्रत्यलश्चैतन्निदर्शनाय "एवं प्रकृतिबादोऽपि विज्ञेयः सत्य एव हि। कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ॥” इति श्लोकपर्यन्तः सांख्यमताधिकारः ।। |तत आदधात्ययं ग्रन्थः सर्वेषामपि सर्वदर्शनज्ञानमुपलिप्सूनामालोकनीयताम् , आवहति विश्वेषामपि द्विधाक्लेशोशिनानां विश्वसनीयताम् , अर्हति च समेषामपि तटस्थानामुपादेयतामिति । । यच्च दर्शनमेव सकलम् , तदंशो वा कश्चन तादृशबाधाद्याहितत्वेन न कथञ्चिदपि संगतिमाप्नोति, तस्य प्रतिक्षेपोऽप्यत्र तेन प्रौढिमानमनुवानेन तर्कसंपर्केण निरूपयांबभूवे, यं प्रज्ञाविषयीकुर्वता मध्यस्थेन संख्यावता प्रन्थकर्तुः शेमुष्युन्मेषं परां स्तुतिमनुपनीय न स्थैर्यमाधातुं शक्यते; यावता तदितरैर्ग्रन्थप्रणयिभिः स्वपक्षसिद्धये विरच्यमाना युक्तिप्रबन्धाः प्रायः प्रतिवादिप्रतिपादितप्रतिद्वन्द्वितर्कोपहन्यमाना दोषपङ्ककलकितात्मानः सन्तः प्रख्यापयन्ति तद्वन्थितॄणां स्वाभिमताभिनिवेशसहकृतं विमलविज्ञानविरहम् ; सत्यापयन्ति “आग्रही बत निनीति युक्तिम्" इत्युमास्वातिवाचकेनोचानं सूक्तम् , प्रतापयन्ति चेत्थं मनस्विनां वितथवादमसहमानानि मनांसि; यथा श्लोकवार्तिके चोदनासूत्रे SANCHAROSC ॥२॥ १ आग्रही बत निनीपति युक्ति तत्र, यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र, तत्र मतिरेति निवेशम् ॥१॥ २ नेतुमिच्छति न तु शनोतीति ध्वनिः । ३ यदाह ज्ञानकलशः संदेहसमुच्चये-"उक्तं चोमाखातिवाचकैः" "भाग्रही."। For Private Personel Use Only .jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 902