Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तां कन्यां सन्त्यज्य गतः । तदनु मुदितेन राज्ञा कृताभ्यनुज्ञो यादवप्रकाशः सशिष्यः.स्वाव सथमगात् । अथ कदाचिद्यादवप्रकाशस्याभ्यञ्जनं कुर्वति गुरुवरे तेनोक्तं "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी" इत्यस्याः श्रुतेः 'मर्कटपृष्ठसदृशे भगवतोऽक्षिणी' इत्यर्थ श्रुत्वा शोकेनाश्रुबिन्दून व्यसृजत् । ते च वह्निकणा इव तदूर्वोर्म्यपतन् । तान् दृष्ट्वा यादवप्रकाश एनमाचार्यमपृच्छत्कु तस्तवायं शोकः--इति । श्रुतेरस्यास्समीचीनेऽर्थे सम्भवति भवद्भिरुक्तमपार्थे श्रुत्वाहं दूये-इति प्रत्यवादीत् । सच कोऽयं समीचीनार्थः' इति पप्रच्छ । आचार्यशिखामणिरयं-'कं पिबतीति कपिस्सूर्यः , तेनास्यते विकसित क्रियत इति; कमुदकं प्यास आसनम् उद्भवो वा यस्येति; कपिः नालम् , तस्मिन् आस आसनं यस्येति च व्युत्पत्त्या रविकरविकसितगम्भीराम्भस्समुद्भतसुमृष्टनालपुण्डरीकदलामलायते भगवतोऽक्षिणी,-इत्यर्थत्रयमुपन्यस्योत्तरयांचकार । एवमस्य गुरोर्भगवत्प्रेमातिशयः, अनितरसाधारणं निगमान्ततत्त्वार्थनिरूपणकौशलं, तदितरविषयवैतृष्ण्यम्-इत्यादयो गुणा दिनेदिनेऽभिवृद्धा अभूवन् । एवं काञ्चीनगरे निवसति गुरुवरे यामुनार्यनामा गुरुवरः श्रीरङ्गनगरनिवासी लक्ष्मणार्यस्य गुणगणान् श्रुत्वा विषयेऽस्मिन् किञ्चित्कुर्वता मया भवितव्यमिति मन्यमानोऽपि शास्त्रान्तराभ्यासपरिसमाप्तिं प्रतीक्षमाणः तदात्व एव स्वस्य मुक्तिघण्टापथप्रस्थानवासरं प्रत्यासन्नं मन्वानः महापूर्णमेतदानयनाय प्राहिणोत् । निशम्य चैनमुदन्तं चिरकासितयामुनार्यशिष्यभावो गुरुवरस्त्वरया मह्त्या निरगाच काञ्चीनगरात् । स यावद्रङ्गनगरं नाससाद, तावदेव यामुनार्यस्समलञ्चकार मुरवैरिलोकममलम् । गच्छन्नेव कनकनिम्नगावास्तटे दक्षिण पश्यन्नतिमहती परिषदं श्रीवैष्णवानां विदितयामुनार्यवृत्तान्तो नितान्ततान्त आकुलस्वान्तश्च आचार्यविप्रयोगजनिते महति शोकसागरे निममज। चिराल्लब्धधृतिरुपसृत्य तच्चरमविग्रहमाचार्यस्यापादमौलि संसेवमानः दक्षिणे करे आकुञ्चितमङ्गुलित्रयमद्राक्षात् ; अप्राक्षीच तत्रत्यानन्तेवासिजनान् --कदानु पुनरिदमङ्गलित्रयमाकुञ्चितम् ; कीदृश्यस्य शरीरे रुजा सञ्जाता---इति । ते च प्रत्यब्रुवन् - न काचिदपि रुजाविरासीदस्य वपुषि, निर्याणानन्तरमेवाकुञ्चितमिदमङ्गुलित्रयम्-इति । पुनरपि तान् पप्रच्छ--किमस्यापूरितो मनोरथ आसीत्-इति । तेच प्रत्यूचुः-श्रीशारीरकमीमांसासूत्रस्य बोधायनमहर्षिप्रणीतवृत्तिग्रन्थानुसारिणी नातिसङ्क्षिप्ता नातिविस्तृता च व्याख्या प्रणेतव्या ; व्यासपराशरयोरस्मत्सिद्धान्तप्रवर्तकयो म तत्कृतोपकारस्मृतिफलतया प्रकटनीयम् ; प्रपन्नजनकूटस्थेन श्रीशठमथनमुनिना प्रवर्तिताया द्रमिडोपनिषदो व्याख्या च कर्तव्येति मुहुर्मुहुः कथयन्त एवासन् ; एतत्रितयमपि न कृतमेव-इति । एतद्वचनमाकl 'सर्वमहं करिष्ये' इति प्रत्यशृणोत् । अनन्तरं चाञ्जलयो यथापूर्वमासन् । ततश्च यामु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 465