Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षु प्रतिपाद्यते । तत्र च द्विकद्वयभिन्ने पूर्वद्विकं ब्रह्मशब्दार्थत्वप्रतिपादनपरम्। जगजन्मादिकारणत्वेन हि ब्रह्मत्वं श्रुतिप्रतिपादितम् – “यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति' इति । अतो जगजन्मादिकारणत्वसमर्थनपरं पूर्वद्विकं ब्रह्मशब्दार्थत्वप्रतिपादनपरं सिद्धोपायोपेयप्रतिपादनपरं विषयप्रतिपादनपरमिति तात्पर्यभेदवर्णनं कृतम्। उत्तरद्विकं तु प्रापकत्वप्राप्यत्वप्रतिपादनपरं साध्योपायोपेयप्रतिपादनपरं विषयिप्रतिपादनपरमिति च भिदा वर्णिता। तत्र च प्रथमाध्यायः ब्रह्मणि जमत्कारणत्वान्वयं प्रतिपादयति । द्वितीयश्च ब्रह्मणो निखिलजगदेककारणत्वे वेदान्तवाक्यविरोधशङ्काया यौक्तिकविरोधशङ्कायाः केषांचिन्नित्यत्वश्रुतिविरोधशङ्कायाश्च निवर्तकः । तृतीयश्च साधनप्रतिपादकः । चतुर्थश्च प्राप्तिचिन्तापरः- इति चतुर्णामध्यायानामर्थभेदो निरूपितः । पादानां च षोडशसंख्याकानामर्थभेदश्च इत्थं वर्णितः---प्रथमेऽध्याये प्रथमपादे अस्पष्टतरजीवादिलिङ्गकानि वाक्यानि विचारितानि। द्वितीये पुनरस्पष्टजीवादिलिङ्गकानि तृतीये स्पष्टतल्लिङ्गकानि,चतुर्थ स्पष्टतरजीवादिलिङ्गकानि । द्वितीयस्य प्रथमे पादे--सांख्यादिस्मृतिभिर्बाधस्य परिहारः; द्वितीये-- प्रतिपक्षतर्काणां वेदान्तवाक्यानुसारिभिस्सत्तकैर्निराकरणम्; तृतीये—आकाशादेः कार्यत्वनिरूपणम्; चतुर्थे-~~-इन्द्रियादेः कार्यत्वनिरूपणं च कृतम् । अथ तृतीयस्य प्रथमे ---जाग्रदाद्यवस्थावस्थितस्य जीवस्य दोषादिनिरूपणम् ; द्वितीये-पुरुषोत्तमस्य सर्वदा हेयप्रत्यनीकत्वकल्याणगुणाकरत्वरूपोभयलिङ्गत्वप्रतिपादनम्; तृतीये---साधनभेदनिरूपणम् ; चतुर्थे–अङ्गनिरूपण च कृतम् । अथ चतुर्थस्य प्रथमेउपासनारोहमाहात्म्यमुत्तरपूर्वाघाश्लेषविनाशरूपम् ; द्वितीये---उत्क्रान्तिप्रकारः; तृतीये -अर्चिरादिगतिः; चतुर्थे --- ब्रह्मप्राप्तिरूपमपुनरावृत्तिलक्षणं च निरूपितम्-इति । तदुक्तं निगमान्तगुरुभिः-"शास्त्रं चैतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानैरध्यायैषोडशानिद्विकयुगभिदुरं पटभेदादिनीत्या । तत्राद्यं वक्ति सिद्धं विषयमपि परं तत्प्रतिद्वन्द्वियुग्मं स्वप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम् ॥ तत्राद्येऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः । दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथोपासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि" इति।तत्र च आद्याधिकरणचतुष्टयं शास्त्रारम्भसमर्थनरूपम्। तत्र च पूर्वद्विकमुः त्तरद्विकमिति पेटिकाभेदः । प्रतीतिजनकत्वस्थापनपरा पूर्वपेटिका । उत्तरा तु वैफल्यशङ्कापरिहारपरा । तत्र सिद्धपरशब्दसामान्यस्य बोधकत्वं प्रथमाधिकरणे न समर्थितम् । द्वितीयेन सिद्धपरशब्दविशेषस्य ब्रह्मरूपार्थविशेषबोधकत्वम् । तृतीयेन मानान्तरावगतत्वाब्रह्मणः शास्त्रस्य वैफल्यमिति शङ्का निराकृता । चतुर्थेन शास्त्रजन्यज्ञानस्य प्रवृत्तिनिवृत्त्यबोधकत्वाद्वैफल्यमिति शङ्का । तच्चोक्तं-" द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 465