Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धकत्वयादिविजयप्रयोजकत्वाभ्यां शारीरशरीरिभावसम्बन्धः प्रधानप्रतितन्त्रमित्युच्यते । तथाच 'प्रधानेन व्यपदेशा भवन्ति' इति न्यायेन तादृशसम्बन्धबोधकेन विशिष्टाद्वैतशब्देन व्यपदिश्यते । एतेनेदमपि प्रत्युक्तम्, यदुत सूक्ष्मचिदचिद्विशिष्टब्रह्मणः स्थूलचिदचिद्विशिष्टब्रह्मणश्चाभेदस्य सिद्धान्तसिद्धतया विशिष्टाद्वैतशब्दस्य विशिष्टयोरद्वैतमिति व्युत्पत्त्या तादृशार्थबोधकत्वम् – इति ; चेतनाचेतनयोश्शरीरत्वे सिद्ध एव तादृशार्थसिद्धिरिति शरीरशरीरिभाव सम्बन्धोपजीवित्वाचास्यार्थस्यति । अयं च विशिष्टाद्वैतसिद्धान्तः पूर्व पराशरेण श्रीविष्णुपुराणे प्रतिपादितः । अनन्तरं च पाराशर्येण महाभारतशारीरकसूत्रादिषु वर्णितः । ततश्च बोधायनेन मुनिना वृत्तिग्रन्थेन विस्तृतः । अथ च टङ्कद्रमिडादिभिः द्रमिडभाध्यादिषु सङ्क्षिप्तः । एवं युगान्तरेषु प्रचुरोऽप्ययमस्मिन् कलियुगे प्रथमं श्रीपराङ्कशमुनिना स्वीयद्रविडोपनिषदि साधिकविंशतिभिर्गाथाभिस्सङ्गह्य प्रवर्तितः । तथाचोक्तम् “द्विकाभ्यां द्यष्टानिर्दुरधिगमनीतिस्थपुटिता यदन्त्या मीमांसा श्रुतिशिखरतत्त्वं व्यवृणुत । तदादौ गाथाभिर्मुनिरधिकविंशाभिरिह नः कृती सारग्राहं व्यतरदिह सङ्गह्य कृपया'' इति । ततः परं च श्रीमन्नाथमुनिभिया॑यतत्त्वाख्यप्रबन्धेन निरूपितः, यामुनमुनिभिरागमप्रामाण्यसिद्धित्रयादिभिः प्रवन्धैः विवृतश्च; भगवद्भाष्यकारैः कुमतिमतविततितूलवातूलायमानयुक्तिनिकरपरिकर्मितेनानेन श्रीभाष्याभिख्येन ग्रन्थेन सम्यक प्रतिष्ठापितश्च । तच्चोक्तम्-"नाथोपर्श प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैस्त्रातं सम्यग्यतीन्द्रैरिदमखिलतमःकर्शनं दर्शन नः" इति । तत्तद्न्थानुसारीचायं ग्रन्थ इति प्रदर्शनाय - 'तदाह वृत्तिकारः' इति, 'भाष्यम्' इति च बोधायनवृत्तिद्रविडभाष्यसंवादः,सिद्धित्रयसंवादश्च दर्शितः । प्रतिज्ञातं च प्रबन्धारम्भे ग्रन्थकृता---'भगवद्वोधायनकृतां विस्तीर्णी ब्रह्मसूत्रवृत्तिं पूर्वाचार्याःसञ्चिक्षिपुः; तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते'-- इति । व्याख्यातं च श्रुतप्रकाशिकायाम्"इह तु वृत्त्यनुसारः प्रतिज्ञातः, न च तत्प्रतिज्ञानमहृदयमिति शङ्कनीयम् , दुष्परिहरबाधकानुपलम्भादिति, परमर्षिप्रणीतानि व्याख्येयानि,तेषां महर्षिप्रणीतानि व्याख्यानानि च सन्ति चेत्----तान्येवानुरोद्धव्यानि ; नानृपेस्सूक्ष्मदर्शित्वम् ; ऋषेरभिप्रायमृषिरेव च स्वतो वेदितुमर्हति,न तु अडमतिरितरो जनः"--- इत्यादि । इतरेषां च व्याख्यातॄणामार्षव्याख्यातिलचित्वम् "उपासातैविध्यात्" "सर्वत्र प्रसिद्धोपदेशात्'' "भूमा सम्प्रसादादध्युपदेशात्' "दहर उत्तरेभ्यः" इत्यादिषु स्वष्टतरमिति च । अतः “निराबाधा बोधायनफणितिनिष्यन्दसुभगा विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः । अकुण्टैः कल्पन्ते यतिपतिनिबन्धा निजमुखैरनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम्' इत्युक्तरीत्या शारीरकसूत्राणामियं संयमीन्द्रकृतैव व्याख्या महर्षिमतानुसारिणी सम्यग्ज्ञानविवृद्धिजननी सुतरामादर्तव्येति च सुस्पष्टम् । अत्र च प्रबन्धे 'स्वप्राः स्वयमेव साधनं ब्रह्म' इत्ययमर्थः चतुर्वघ्याये For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 465