Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतजन्यबुद्ध्यो : ” – इति ; " व्युत्पत्त्यभावः प्रतिपत्तिदौस्स्थ्यमन्येन लभ्यत्वमथाफलत्वम् । एतानि वै सूलचतुष्टयेनानारम्भमूलानि निराकृतानि " --- इति च ॥ अत्र ग्रन्थे समुदितसूत्रसंख्या पञ्चचत्वारिंशदधिकपञ्चशती (५४५) । अधिकरणसंख्या षट्पञ्चाशदधिकं शतम् (१५६ ) । तच्चोक्त सौत्री संख्या शुभाशीरधिकृतिगणना चिन्मयी ब्रह्मकाण्डे - इति । सूत्रलक्षणं तु "अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः" इति प्रतिपादितम् । भाष्यलक्षणं तु – “सूनाथों वर्ण्यते यत्र वाक्यैस्सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः " - इति । अत्र च 'एतदुक्तं भवति' इत्यादिवाक्यैः स्ववाक्यविवरणात् सूत्रार्थनिरूपणाच्च भाष्यलक्षणवत्त्वं स्फुटम् । 'संक्षिप्तस्य च विस्तारः संक्षेपो विस्तृतस्य च । एतदुक्तं भवतिना समाधिर्व्याकुलस्य च " इति; 'एतदुक्तं भवति' इत्यादिग्रन्थस्य प्रयोजननिरूपणात् स्ववाक्यविवरणरूपत्वं स्पष्टम् । इदं च शास्त्रं शारीरकमिति व्यपदिश्यते । शरीरसम्बन्धी शारीरः । जगच्छरीरक इत्यर्थः । शारीरं कायति प्रतिपादयतीति शारीरकम् ; 'कै गै शब्दे' इति धातोः "आतोऽनुपसर्गे कः" इति कप्रत्ययः । जगच्छरीरकब्रह्मप्रतिपादकमित्यर्थः । उक्तं च श्रुतप्रकाशिकायां - " शारीरकं ब्रह्ममीमांसा; जगच्छरीरकः परमात्मा शारीरः "तस्यैष एव शारीर आत्मा" इति श्रुतेः । तद्विषयकं शास्त्रं शारीरकमित्युच्यते" इति ॥ 3 Acharya Shri Kailassagarsuri Gyanmandir उक्तं च तत्त्वटीकायां "सर्वशरीरगोचरत्वं दर्शयताशारीरकशब्देन " इति । प्रत्येकमधिकरणस्याङ्गानि पश्ञ्चेति केचिद्वदन्ति तानि च - विषयवाक्यनिरूपणम्, संशयप्रतिपादनम्, पूर्वपक्षसिद्धान्तयुक्तिनिरूपणम्, निश्चयः, पूर्ववक्षसिद्धान्तयोः प्रयोजननिरूपणं च - इति । तदुक्तं " विषयस्संशयश्चैव विचारो निर्णयस्तथा । प्रयोजनंच पञ्चाङ्गं प्राञ्चोSधिकरणं विदुः " इति । दशाङ्गानीति केचित् ; तच्चोक्तं " संगतिर्विषयश्चैव संशयो - त्थानकारणम् । संशयस्य प्रकारश्च तदर्थाच विचारणा । तस्यां फलफलित्वंच न्यायौ पक्षयोर्द्वयोः । निर्णयस्तत्फलं चेति बोध्यान्यधिकृतौ दश" इति ॥ एतद्रन्थस्येदं भागमुद्रणसमये समानीताः श्रीकोशा : श्री. उ. वे. परवस्तु रामानुजाचार्याणां, श्री. उवे. ति. घटाम्बु. राघवाचार्याणां श्रीरङ्गवासिनां, ए. वि गोपालाचार्याणां अहीन्द्र पुरवासिनां विदुषां चे. नरसिंहाचार्याणां, राजकीयप्राचीनलिखित पुस्तकशालायाश्च तालपत्रलिखिताः पञ्च प्रकृतैः, श्रीपरवस्तुरामानुजाचार्यैः लेखकप्रमादादिरहितं विद्वत्साहाय्येन परिशोधितः वेदान्तसारवेदान्तदीपाभ्यां श्रुतप्रकाशिकया च सहितः प्रमाणाकरनिर्देशपरिष्कृतश्चैकः परमुपाकार्युः। मुद्रितकोशोऽयमक्षरसंयोजनायोपपयुक्तो मातृकात्वेन च। अन्ये पुनस्तंमित्यानुवाचिताः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 465