Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री. श्रीमते रामानुजाय नमः उपोद्धातः. विदितमेव खलु-भगवान् भाष्यकारः अनवरततन्तन्यमानपरमपुरुषनियमनातिकमणजनिततन्निग्रहसंकल्पविषयतया दुरभिभवभवदहनदन्दह्यमानान् सरभसेन प्रतिकूलवातेन नीयमानानिव सांयात्रिकगणान् पवनाशनवराधिष्ठितभवनवासिन इव कुटुम्बिनः हुतवहपरीतकाष्ठमध्यवर्तिन इव कीटान् महाप्रवाहमध्यगतानिव जम्बूकान् जन्तूनवलोक्य निरवधिकरुणार्द्रहृदयः पुरुषोत्तमप्रसादमेव तेषां संसृतिनिस्तरणोपायं मन्वानः, तस्य च निग्रहसङ्कल्पशान्तिपूर्वकतया तस्याश्र भक्तिप्रपत्तिजन्यत्वेन " भन्या त्वनन्यया शक्यः" " भक्त्या त्वनन्यया लभ्यः प्रपत्त्या वा महामुने" "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” इत्यादिप्रमाणगणप्रमिततया, तदनुष्ठानस्य च भगवत्स्वरूपरूपगुणविभवविद्यास्वरूपतद्भेदतदितिकर्तव्यताज्ञानाधीनतया अपेक्षितनिखिलार्थावबोधकं श्रीभाष्याख्यं प्रवन्धरत्नमेतत्प्रणिनाय-इति। तथाचोक्तमागमान्तगुरुभिः " पथ्यानि घोरभवसंज्वरपीडितानां हृद्यानि भान्ति यतिराजमुनेवचांसि” इति । सचायमाचार्यः कतमः, कस्मिन् देशे संजातः, कश्चायमस्य प्रबन्धस्य विषयः-इत्यत्र किंचिदुच्यते । स भगवान् श्रियः पतिनिखिलहेयप्रत्यनीककल्याणकतानस्वरूपः " यो ब्रह्मणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" "हर्तुं तमस्सदसतीच विवेक्तुमीशो मान प्रदीपमिव कारुणिको ददाति" इत्युक्तरीत्या स्वस्वरूपरूपगुणविभूतिस्वाराधनतत्फलादिप्रदर्शकं वेदाख्यं प्रमाणं चतुर्मुखादिपरम्परया प्रवर्तयामास । एवं कृतेऽपि "किंचित्तदन्यथाभूतं त्रेतायां द्वापरेऽखिलम्" इत्युक्तरीत्या तत्तत्कर्मानुरूपमतिविलसितजनिताप्रतिपत्त्यादिभिर्निष्फलीकृते " तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरात् ॥ उत्सन्नान् भगवान्वेदानुजहार हरिस्स्वयम् । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा" इति व्यासरूपेणावतीर्य वेदान् विशदीकर्तुं प्रवृत्तः स्वशिष्येण जैमिनिमुनिना स्वाराधनकप्रधानपूर्वभागार्थविचाररूपपूर्वमीमांसासूत्राणि कारयित्वा स्वयमेव स्वस्वरूपादिप्रतिपादनेदंपरोपनिषदर्थविचाररूपशारीरकमीमांसासूत्राणि प्रणिनाय । तानि चेमानि सूत्राणि औपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहितैरनधिगतप्रत्यक्षादिप्रमाणयाथात्म्पैरयथायथं व्याख्यतानीति तदर्थयाथात्म्यप्रतिपादनकृतादरेण दामोदरेण नियुक्तः "नि For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 465