Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैः यथोचित शेष इतीरिते जनैः” इति सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधशेषवृत्तिकरणेनानितरसाधा. रणशेषसमाख्याविख्यातः सूरीणामग्रणीः श्रीकान्तचरणारुणाम्बुजपरिचरणतत्परजननिबिडतया प्रख्यातगुणसमाख्यायां श्रीभूतपुर्यभिख्यायां नगर्यां सन्ततविहितानभिसंहितफलसप्ततन्तुसमाराधितरमारमणस्य हारितकुलजलधिराकाशशाङ्कस्य केशवसोमयाजिनाम्नो विप्रवर्यस्य जायायां भूदेवीसमाह्वायां श्रीशैलपूर्णसहोदरायां पिङ्गलाब्दचैत्रशुक्लपञ्चम्यामा युजि गुरोश्शुभे वासरेऽवततार ॥ ___ अत्र केचिदेवं मन्यन्ते-एतन्महिमातिशयवर्णनेदंपरप्रवृत्ते संयमिसार्वभौमेणैव स्ववैभवप्रकटनमसम्मन्यमानेनापि कुरुकेशदाशरथिप्रभृतिभिस्सविनयमर्थितनाङ्गीकृत्य स्वशिष्येभ्यः प्रवर्तिते शतान्तादिप्रवन्धे पञ्चायुधावतारत्वमेवास्य वर्णितम् ; यतिराजसप्तत्यामपि "प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः । अपृथक्प्रतिपन्नयन्मयत्वैर्ववृधे पञ्चभिरायु. धैर्मुरारेः” इति पञ्चायुधावतारत्वम् , तत्रैवान्यत्र "विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहस्सन् विष्वक्सेनो यतिपतिरभूद्वेनधारस्त्रिदण्डः' इति सेनेशांशत्वमपि प्रतिपादितम् , नानन्तावतारत्वम् ; अतः पञ्चायुधावतार एवायम् --इति । पञ्चायुधीसेनेशसमुच्चयवत् पन्नगेन्द्रसमुच्चयोऽपि सङ्घटेतेति नात्रातीव विवादः शोभत इति विरम्यते । एवमवतीर्णश्वायमाचार्यों यथाविधिविहितसंस्कारः काञ्चीपुरनिवासिनो विबुधाद्यादवप्रकाशाभिधात् कणभक्षाक्षचरणपाणिनिगुरुकुमारिलादिमतविशेषार्थीनग्रहीत् । तदात्वे च तद्देशाधिपस्य पुत्रीं कश्चिद्ब्रह्मराक्षसो जग्राह । स तु नरपतिर्यादवप्रकाशं मनवित्तमं ज्ञात्वा तमाकारयामास । स च शिष्यैः परिवृतः क्षितिपतिसभां गत्वा तेन च यथार्ह विहितसपर्यः कन्यां तामाह्वापयामास । सा च कन्या भूताविष्टा साट्टहासं विहस्याह-अहो त्वमद्य मामुत्सारयितुमागतः, किं न श्रुतं त्वया-परश्शतं मात्रिका मदीयेन सरभसाट्टहासेन भीता यथागतं प्रदुद्रवु: ---इति । किं च त्वदीयं पूर्वजन्मवृत्तान्तम् अपि जानासि ?; त्वं किल गोधात्वमनुप्राप्य कस्मिंश्चिद्गल्मे वसन् शेषाचलशिखशेखरायमाणस्थ भगवतः श्रीनिवासस्य संसेवनाय प्रस्थितानां हरिदासानां भुक्तोच्छिष्टभक्षणेन विप्रत्वं प्राप्तः । अहं तु भगवद्दासः क्रतुभिः कैटभारिमाराधयन् तत्र स्वरादिभ्रेषेण ब्रह्मराक्षसोऽभवम् । परं तु योऽयं त्वदन्तेवासी लक्ष्मणाभिधानः भस्मच्छन्नानल इव स्वमहिमानमनवधिकमप्यनाविएकुर्वन् प्राकृत इवास्ते, स यदि स्वचरणारुणाम्बुरुहयुगलं मदीये मूर्ध्नि विन्यस्य मामादिशेत् ; तदा यथानियोगमनुतिष्ठामि—इति । नरपतिश्चैतदाकर्ण्य सप्रश्रयं प्रणम्य गुरुवरं प्रा. र्थयामास । गुरु तल्लजश्चायमुररीचकार नरपालाभ्यर्थनाम् । कन्यायामाविष्टो ब्रह्मराक्षसश्च गुरुवरमेनं प्रणम्य तदीयं पदपङ्केरुहं स्वशिरसि धृत्वा 'कृतार्थोऽस्मि' 'धन्योऽस्मि' इत्युक्त्वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 465