Book Title: Shaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

Previous | Next

Page 394
________________ विभाग-२, सर्वसिद्धान्तप्रवेशक: ३७३ तदपि न, यत आह-"१४२तेभ्यश्चैतन्यम्" [बृह० सू०] तद्धर्म एवेत्यर्थः, मद्याङ्गानां मदशक्तिवत् । ननु चात्मा तत्त्वान्तरम्, तदप्यसम्बद्धमेव, यत आह सूत्रकारः“१४२जलबुद्बुदवज्जीवाः" [बृह० सू० ], तथा “१४२चैतन्यविशिष्टः कायः पुरुषः" [ बृह० सू०] । ननु च पुरुषार्थः कश्चित् तत्त्वान्तरं भविष्यति । तन्निवृत्त्यर्थमाह-"प्रवृत्तिनिवृत्तिसाध्या ४४ प्रीतिः पुरुषार्थः" [ बृह० सू०] स च "काम एव" [ बृह० सू० ], नान्यो मोक्षादिः । ननु चान्य एव कश्चिद् बुद्ध्याधारः पुरुषो भविष्यति । दृष्टहान्यदृष्टकल्पनासम्भवान्नान्यः । तस्मात् स्थितमेतत्-‘चत्वार्येव तत्त्वानि१४५' ।। अथ प्रमाणम् । तस्य सामान्यलक्षणम्-अनधिगतार्थपरिच्छित्तिः प्रमाणम् । उपायो वा सन्निकर्षेन्द्रियार्थादि:४६ । “सन्निहिततदर्थे यथार्थविज्ञानं १४७प्रत्यक्षम्" [बृह० सू०] । प्रत्यक्षस्येदं लक्षणम् । तन्मते "१४८प्रत्यक्षमेवैकं प्रमाणम्" [बृह० सू०] । ननु १४९चोक्तम्-"असन्निहितार्थमनुमानम्" [बृह० सू०] । तच्च परमतानुसारेण न स्वमतापेक्षयेति स्थितमिति लोकायतानां संक्षेपतः प्रमाणप्रमेयस्वरूपम्१५० । *१५९इति लोकायतराद्धान्तः समाप्तः । सर्वसिद्धान्तप्रवेशकः समाप्तः । नैयायिक-वैशेषिक-जैन-साङ्ख्य-बौद्ध-मीमांसक-लोकायतिकमतानि सङ्कपतः समाप्तानि । १४१. "अत्र... लोकायतिका..... तेभ्यश्चैतन्यम्, मदशक्तिवद् विज्ञानम्, चैतन्यविशिष्टः कायः पुरुषः' इति चाहुः ।"-ब्रह्मसूत्र-शांकरभाष्य ३।३।५३ ॥ १४२. धर्मसं० वृ० पृ० २७ A । षड्द० बृ० ॥१४३. शास्त्रवा० स्वो० पृ० ५ B। षड्द० बृ० ॥१४४. “साध्या वृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां धर्मः कामात् परो न हि॥८६॥"-षड्द० ॥१४५. "तत्त्वसंख्या न युज्यते चत्वार्येव तत्वानि इति।"-शास्त्रवा० स्वो० पृ० ८ A। "चत्वार्येव पृथिव्यादीनि तत्त्वानि' इति तत्त्वनियमसंख्याव्याघातप्रसङ्गः।"धर्मसं० वृ० पृ० ३७B|१४६. यदिसन्निहितोर्थः यथा विज्ञानं A|१४७. प्रत्यक्षम् B मध्ये नास्ति ॥ १४८. "प्रत्यक्षमेवैकं प्रमाणम्' इति वचनात्"-धर्मसं० वृ० पृ० ६५ B | "प्रत्यक्षमेवैकंप्रमाणं नान्यत्' इति वचनात्"-धर्मसं० वृ० पृ० ३७B-६३ A॥१४९. चोक्तं परार्थमनुमानम् A ॥१५०.स्वरूपं समाप्तमिति B ॥१५१. ★★ एतच्चिह्नान्तर्गतः पाठः B मध्ये नास्ति॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534