________________
विभाग-२, सर्वसिद्धान्तप्रवेशक:
३७३
तदपि न, यत आह-"१४२तेभ्यश्चैतन्यम्" [बृह० सू०] तद्धर्म एवेत्यर्थः, मद्याङ्गानां मदशक्तिवत् । ननु चात्मा तत्त्वान्तरम्, तदप्यसम्बद्धमेव, यत आह सूत्रकारः“१४२जलबुद्बुदवज्जीवाः" [बृह० सू० ], तथा “१४२चैतन्यविशिष्टः कायः पुरुषः" [ बृह० सू०] । ननु च पुरुषार्थः कश्चित् तत्त्वान्तरं भविष्यति । तन्निवृत्त्यर्थमाह-"प्रवृत्तिनिवृत्तिसाध्या ४४ प्रीतिः पुरुषार्थः" [ बृह० सू०] स च "काम एव" [ बृह० सू० ], नान्यो मोक्षादिः । ननु चान्य एव कश्चिद् बुद्ध्याधारः पुरुषो भविष्यति । दृष्टहान्यदृष्टकल्पनासम्भवान्नान्यः । तस्मात् स्थितमेतत्-‘चत्वार्येव तत्त्वानि१४५' ।।
अथ प्रमाणम् । तस्य सामान्यलक्षणम्-अनधिगतार्थपरिच्छित्तिः प्रमाणम् । उपायो वा सन्निकर्षेन्द्रियार्थादि:४६ । “सन्निहिततदर्थे यथार्थविज्ञानं १४७प्रत्यक्षम्" [बृह० सू०] । प्रत्यक्षस्येदं लक्षणम् । तन्मते "१४८प्रत्यक्षमेवैकं प्रमाणम्" [बृह० सू०] । ननु १४९चोक्तम्-"असन्निहितार्थमनुमानम्" [बृह० सू०] । तच्च परमतानुसारेण न स्वमतापेक्षयेति स्थितमिति लोकायतानां संक्षेपतः प्रमाणप्रमेयस्वरूपम्१५० ।
*१५९इति लोकायतराद्धान्तः समाप्तः ।
सर्वसिद्धान्तप्रवेशकः समाप्तः । नैयायिक-वैशेषिक-जैन-साङ्ख्य-बौद्ध-मीमांसक-लोकायतिकमतानि सङ्कपतः समाप्तानि ।
१४१. "अत्र... लोकायतिका..... तेभ्यश्चैतन्यम्, मदशक्तिवद् विज्ञानम्, चैतन्यविशिष्टः कायः पुरुषः' इति चाहुः ।"-ब्रह्मसूत्र-शांकरभाष्य ३।३।५३ ॥ १४२. धर्मसं० वृ० पृ० २७ A । षड्द० बृ० ॥१४३. शास्त्रवा० स्वो० पृ० ५ B। षड्द० बृ० ॥१४४. “साध्या वृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां धर्मः कामात् परो न हि॥८६॥"-षड्द० ॥१४५. "तत्त्वसंख्या न युज्यते चत्वार्येव तत्वानि इति।"-शास्त्रवा० स्वो० पृ० ८ A। "चत्वार्येव पृथिव्यादीनि तत्त्वानि' इति तत्त्वनियमसंख्याव्याघातप्रसङ्गः।"धर्मसं० वृ० पृ० ३७B|१४६. यदिसन्निहितोर्थः यथा विज्ञानं A|१४७. प्रत्यक्षम् B मध्ये नास्ति ॥ १४८. "प्रत्यक्षमेवैकं प्रमाणम्' इति वचनात्"-धर्मसं० वृ० पृ० ६५ B | "प्रत्यक्षमेवैकंप्रमाणं नान्यत्' इति वचनात्"-धर्मसं० वृ० पृ० ३७B-६३ A॥१४९. चोक्तं परार्थमनुमानम् A ॥१५०.स्वरूपं समाप्तमिति B ॥१५१. ★★ एतच्चिह्नान्तर्गतः पाठः B मध्ये नास्ति॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org