________________
३७४
पू. श्री पद्मसागरगणी विरचित
(९) श्रीयुक्तिप्रकाशविवरणं प्रारभ्यते ॥ प्रणत्यव्यक्तभक्त्या श्री- वर्द्धमानक्रमांबुजं । आत्मार्थं तन्यते युक्ति - प्रकाशो जैनमंडनं ॥१॥
विभाग- २, श्रीयुक्तिप्रकाशविवरणम्
॥ टीका ॥ प्रणम्य श्री महावीरं, नम्राखंडलमंडलं ॥ कुर्वे युक्तिप्रकाशस्य, स्वोपज्ञां वृत्तिमादरात् ॥ १ ॥ प्रणत्येति ॥ श्रीवर्द्धमानः श्री महावीरनामाऽस्यामवसप्पिण्यामंतिमजिनस्तस्य क्रमांबुजं पादपद्मं प्रणत्य नत्वा युक्तिप्रकाशनामा ग्रंथो मया तन्यत इति तावदन्वयः, तत्र व्यक्तभक्त्येति करणपदं वीरप्रणामविशेषणं तथा च व्यक्तभक्त्यान्वितप्रणामस्य बलवमंगलभूतत्वेन प्रत्यूहव्यूहोपशमनार्थमादावुपन्यासः ननु बहूनां युक्तिप्रकाशकशास्त्राणां विद्यमानत्वेन किं युक्तिप्रकाशविस्तरकरणादरेणेत्यत आह- आत्मार्थं स्वार्थं, पूर्वाभ्यस्तान्येव शास्त्राण्येतत्करणादरेण विशेषात् स्मारितानि संति, स्वसंस्कारोद्बोधलक्षणं स्वार्थं साधयेयुरित्यर्थः, नन्वेतच्छास्त्रेऽध्ययनांऽगीकाराभ्यां केऽधिकारिण इत्याह - किंभूतो युक्तिप्रकाशः, जैनमंडनं, जिनशासनानुयायियुक्तीनामेवात्र प्रतिपादितत्वेन जैनानामेवाऽध्ययनांगीकाराभ्यामधिकारित्वान्मंडनमिव मंडनं, यद्यप्येतदध्ययनमात्रे शाक्यादयोऽधिकारिणो भवंत्येव, तथाप्यत्र तदुच्छेदयुक्तीनां विद्यमानत्वेनाऽनधिकारिण एव शाक्यादय इत्यर्थादापन्नं, ननु श्रीमद्भिर्यो युक्तिप्रकाशविस्तरः क्रियते स किं पूर्वं विद्यते न वेति चेत्पूर्वं विद्यते, तदा सतः पुनः करणेन पिष्टपेषणं संपन्नं, चेन्न विद्यते तदाऽसतः करणायोग इत्युभयथाप्यत्र निरर्थकैव श्रीमतां प्रवृत्तिरितिचेन्न, अस्त्येव स्याद्वादरत्नाकरादिशास्त्रेषु युक्तिप्रकाशविस्तारस्तथाप्यनया गत्या तत्र नास्तीति सार्थकैव प्रवृत्तिरत्रेति, तथाविधशास्त्रस्था अतीवगहनगंभीरा युक्तयो लालित्येन सुकरतया चात्र विस्तार्यन्त इत्यर्थ:, इति प्रथमवृत्तार्थः ॥ १ ॥
चेद् बौद्ध ! वस्तु क्षणिकं मते ते, तत्साधकं मानमदस्तथैव । तथा च तेन ह्यसता कथं तत्, प्रमेव धूमेन हुताशनस्य ॥२॥
-
-
॥ टीका ॥ अथ प्रथमं बौद्धं निराकरोति, चेद् बौद्ध० तत् सं० हे बौद्ध !
तव मते चेद् यदि वस्तु घटपटलकुटशकटादिकं क्षणिकं क्षणेन एकेन समयेन विनश्वरमस्तीत्यध्याहार्यान्वयः तर्हि तत्साधकं वस्तुक्षणिकत्वसाधकं अद इदं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
,