________________
विभाग-२, श्रीयुक्तिप्रकाशविवरणम्
३७५
मानमपि तथैव क्षणिकमेव स्यात, अयं भावः - यदि सकलमपि वस्तुक्षणिकमित्येवांगीकृतं त्वया, तदा क्षणिकत्वसाधकं प्रमाणमिदमेव वाच्यं । अर्थक्रियाकारित्वात् क्षणिकं वस्त्विति, इदमपि सकलवस्त्वंतःपातित्वेन क्षणिकमेवेत्यर्थः । ननु क्षणिकत्वसाधकं प्रमाणं चेत् क्षणिकं तदा कः प्रकृते दोष इत्यत आह - तथा चेति, तथा च एवं सति क्षणिकत्वादेकसमयानंतरं असता विनष्टेन तेन क्षणिकत्वसाधकप्रमाणेन कथं तत्प्रमा क्षणिकत्वप्रमा जन्यत इत्यर्थाद् बोध्यं, प्रमा त्वत्राऽनुमितिरूपैव गृह्यते, तथा चायमर्थः - क्षणिकत्वं तावत् साध्यं, अर्थक्रियाकारित्वादिति हेतुः, हेतुस्तु यदि सन् स्यात्तदा पक्षधर्मत्वसामानाधिकरण्ये न साध्यानु मिति जनयति, एतस्य हेतोविनष्टत्वेन पक्षधर्मत्वाभावात्कथं साध्यानुमितिजनकत्वं, न कथमपीत्यर्थः । अत्र द्रष्टांतमुखेन दाढ्यं दर्शयति । इव यथा धूमेन हेतुभूतेन हुताशनस्य वह्नेरन मितिर्जन्यतेऽविनष्टत्वेन पक्षधर्मत्वसामानाधिकरण्यात्, न तथानेन हेतुना क्षणिकत्वात् स्वसाध्यानुमितिर्जनयितुं शक्येत्यर्थ इति वृत्तार्थः ॥२॥
तत्संतति व पदार्थसंततेः, संग्राहिकाधक्षण एव नष्टा । नाशग्रहौ नो युगपद् भवेतां, विरुद्धभावादिव बालवृद्धते ॥३॥
॥ टीका ॥ अथ क्षणानंतरं विनश्यता प्रमाणेन स्वसंततिर्जन्यते, तया विनश्यदवस्थार्थजनितसंततेः क्षणिकत्वं साध्यत इति चेन्नैतदपि सुंदरमित्याह - तदिति, तत्संततिः प्रमाणसंततिः पदार्थसंतते: क्षणिकत्वरूपसाध्यग्रहपुरस्कारेण न संग्राहिका सम्यग् ग्राहिका भवति, कुत इतिविशेषणद्वारेण हेतुमाह - सा प्रमाणसंततिः किंविशिष्टा क्व आद्यक्षण एव, प्रथमक्षण एव, उत्पत्त्यनंतरं यः प्रथमः क्षणस्तस्मिन्नेव क्षणिकत्वात् क्षयंगतेत्यर्थः । भावार्थस्त्वयं - विनश्यता प्रमाणेन स्वसंततिर्जन्यते, साऽपि विनश्यती संतत्यंतरमियं किल बौद्धानां परिपाटीः । तथा च स्वनाशव्यग्रत्वात्प्रमाणसंततिरपि तथाऽवस्थापन्नार्थसंततेः कथं ग्राहिका स्यात्, नैवेत्यर्थः ।। ननु युगपत्प्रमाणसंतते शोऽप्यस्तु, पदार्थसंततिग्रहोऽप्यस्तु, को दोष इत्यत आह - नाशश्च ग्रहश्च नाशग्रहौ, स्वस्य नाशः परस्य ग्रहः, एतौ द्वौ युगपत् समकालं नो भवेतां । तथाहि - प्रमाणसंततिर्हि विनश्यती वा पदार्थसंततिग्राहिका विनष्टा वा, नाद्यो विनश्यत्यास्तस्याः स्वनाशव्यग्रत्वेन परकृत्यकरणाऽसमर्थत्वात्, विनाशकालादधिककालाऽलाभाच्च । न द्वितीयस्तस्या नाशस्याऽ भावरूपत्वात् अभावस्य प्रतियोगिकृत्याऽकरणात् । यद्यभावोऽपि प्रतियोगिकृत्यं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org