SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ विभाग- २, श्रीयुक्तिप्रकाशविवरणम् करोति । तदा घटाभावस्यापि जलाहरणक्रियाकरणप्रसक्त्या, घटव्यतिरिक्ता अप्यर्था जलाहरणं कुर्युरिति व्यवहारोच्छेदस्तस्माद्विनष्टा प्रमाणसं ततिर्न पदार्थसंततिग्राहिकेति । कुत इत्यत आह विरुद्धभावाद्विरुद्धत्वादित्यर्थः ॥ अथात्र द्रष्टांतः ॥ इव यथा वृद्धबालते नो युगपद् भवेतां । द्वन्द्वान्ते श्रूयमाणं पदं उभयत्रापि संबध्यत इति न्यायाद् वृद्धताबालते सामानाधिकरण्येनायमर्थः, एकस्मिन्नेव पुरुषे युगपद् वृद्धताबालते न संभवत इत्यर्थ:, इति वृत्तार्थ: ॥३॥ प्रामाण्यामुच्चैर्वदताऽपरोक्षा - नुमानयोरेव निषिद्धमेतत् । शब्देषु बौद्ध ! त्वयका तथा चाऽप्रामाण्यमाप्तं तकयोर्न द्रष्टं ॥४॥ ३७६ ॥ टीका ॥ प्रामाण्यमिति । हे बौद्ध ! अपरोक्षानुमानयोरेव प्रत्यक्षानुमानयोरेव प्रामाण्यं वदता प्रमाणे स्त इत्युक्तं । तथा च शब्देषु त्वया एतदिति प्रामाण्यं निषिद्धं । ततः किमित्यत आह तथा चेति, एवं सति तकयोस्तयोस्तव प्रामाण्येनाऽभिमतयोः प्रत्यक्षानुमानयोरप्रामाण्यमाप्तं प्राप्तं सदपि भवता न द्रष्टं, न ददृशे, इति शब्दार्थः, भावार्थस्तु त्वया हि धावत भो डिंभाः नदीतीरे गुडशकटं विपर्यस्तमित्यादिवचनवत् संवादकत्वाऽभावात् सर्वेषां शब्दानामप्रामाण्यमित्येवं वक्तव्यं तच्च प्रत्यक्षानुमानयोरपि समानं, क्वचिद् भ्रमरूपे प्रत्यक्षादौ संवादकत्वाऽदर्शनात् क्वचिद्धेत्वाभासादावनुमानेऽपि संवादकत्वाऽदर्शनात्तयोः समग्रयोरपि अप्रामाण्यप्रसक्तेस्तस्मात्तयोरिव शब्दानामपि प्रामाण्यांगीकारं कुर्वित्यर्थः, इति वृत्तार्थः ॥४॥ - नांतर्भवत्येव किलानुमाने, शाब्दं प्रमाणं विपरीतरूपं । प्रत्यक्षवत्तस्य यतो विभिन्ना, समग्रसामग्र्यपि सुप्रतीता ॥५॥ - ॥ टीका ॥ - ननु शाब्दं प्रमाणं पृथग् नोच्यते, किंत्वनुमानांत:पातीत्युच्यत इति चेन्नैतदपि सुंदरमित्यत आह- नांतर्भ०, शाब्दं प्रमाणमनुमाने न अंतर्भवति, यथा प्रत्यक्षमनुमाने नांतर्भवति तथेदमपि कुतोऽस्याऽनुमानाऽन्तर्भावे प्रत्यक्षसाम्यमित्यतो विशेषणद्वारा हेतुमाह किंविधं शाब्दं प्रमाणं, विपरीतरूपं अनुमानाद्विपरीतं रूपं स्वरूपं यस्य तदिति प्रत्यक्षसाम्यं । कुतोऽस्य प्रत्यक्षस्येव नानुमानरूपत्वमित्यत आह शाब्दप्रमाणस्य समग्रसामग्र्यपि अनुमानाद्विभिन्नास्तीति शब्दार्थो भावार्थस्त्वयं त्वया हि शाब्दं प्रमाणं किं संबद्धमर्थं गमयेदसंबद्धं वा, न तावदसंबद्धं, गवादेरप्यश्वादिप्रतीतिप्रसंगात् । संबद्धं चेत्तदा तल्लिंगमेव तज्जनितं च यतः कारणात्तस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org - -
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy