________________
विभाग-२, श्रीयुक्तिप्रकाशविवरणम्
३७७
ज्ञानमनुमानमेवेति वक्तव्यं, तच्चाऽयुक्तं, प्रत्यक्षस्याप्येवमनुमानत्वप्रसंगात् । तदपि हि स्वविषये संबद्धं सत्तस्य गमकं, अन्यथा सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वपूसंगात । अथ विषयसंबद्धत्वाविशेषेऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात्प्रमाणांतरत्वं, तर्हि शब्दस्यापि किमेवं प्रमाणांतरत्वं न स्यात्, शाब्दं हि शब्दसामग्रीतः प्रभवतीति तदुक्तं प्रमेयकमलमार्तंडे - शब्दादुदेति यद्ज्ञानमप्रत्यक्षेऽपि वस्तुनि । शाब्दं तदिति मन्यते प्रमाणांतरवादिनः ॥१॥ तस्मात्प्रत्यक्षानुमानयोरिव शब्दस्यापि प्रमाणांतरत्वमंगीकर्त्तव्यमेव । अथ शब्दसामग्या बहुसंमतत्वं दर्शयति । किंविधा सामग्री सुप्रतीता अतिशयेन प्रतीतेत्यर्थः ॥५॥ न संनिकर्षोऽपि भवेत्प्रमाणं, प्रमाकृतौ तद्व्यभिचारदर्शनात् । अप्राप्यकार्यंबकसंनिकर्षों, घटादिनाऽर्थेन कथं भवेत् पुनः ॥६॥ ॥ टीका ॥ - अथ सुगतमतमपाकृत्य नैयायिकमतमपाकरोति, न संनि० चेत्प्राप्य० द्विधाप्य० न तैज० अग्रगकाव्यगतं यौगपदमध्याहृत्यात्र व्याख्येयं । हे यौग ! त्वया प्रमाणत्वेन कल्पितोऽपि संनिकर्षः प्रमाणं न भवेत्, कुत इति हेतुमाह ।। प्रमाकृतौ प्रमाजनने तदिति तस्य संनिकर्षस्य व्यभिचारदर्शनात्, भावार्थस्त्वयं - प्रमासाधकतमं प्रमाणमिति प्रमाणलक्षणं त्वया अभ्युपगतं, यद्यस्मिन् सति भवत्येवाऽसति च न तत्तस्य साधकतमं, क्वचित्सत्यपि संनिकर्षे प्रमाया अनुत्पादात् । क्वचिदित्यपि प्रमोत्पत्ते रित्यत्रान्वयव्यतिरे काभ्यां व्यभिचारदर्शनात् । तथाहि - गगनस्य विभुत्वेन सकलमूर्तद्रव्यसंयोगित्वं विभुत्वमिति वचनाद् गगनचक्षुषोघंटचक्षुषोरिव संनिकर्षण घटविषयकप्रमाया अजननात्, न च तत्र योग्यताया अभावान्न संनिकर्षस्तत्प्रमां जनयतीति वाच्यं । योग्यतांगीकारे किमंतर्गडुना संनिकर्षण योग्यता हि प्रतिबंधकाऽभावः, स च स्वावरणक्षयोपशमरूपं भावेंद्रियमेव, तथा चास्मत्कक्षापंजरप्रवेशः, विशेषणज्ञानाद्विशेष्यप्रमायां जायमानायां क्वचिदसत्यपि संनिक प्रमोत्पत्तेरिति स्थितमेतन्न संनिकर्षः प्रमाणमिति । अथ ग्रामो नास्ति कुतः सीमेति न्यायात् । घटाद्यथैः संनिकर्ष एव न संभवति, तस्य प्रमाणाऽप्रमाणत्वविचारस्तु दूरेऽस्त्विति दर्शयति - अप्राप्येति अप्राप्यकारि यदंबकं चक्षुस्तस्य घटादिनार्थेन संनिकर्षः कथं भवेन्न कथमपीत्यर्थः । यदि चक्षुः प्राप्यकारि स्यात् तदाऽस्यार्थप्राप्त्या संनिकर्षः संभवतीति भावार्थ, इति वृत्तार्थः ॥६॥
For Personal & Private Use Only
www.jainelibrary.org