________________
विभाग- २, श्रीयुक्तिप्रकाशविवरणम्
चेत्प्राप्यकार्यंबकमस्ति यौगा ! ऽत्यासन्नामर्थं कथं न पश्यति । तथाविधं सत्किमु तेषु गत्वा, गृह्णाति वा यांत्यथ तेऽत्र देशे ॥७॥ ॥ टीका ॥ अथ चक्षुः प्राप्यकारित्वं निरस्यति । चेत्प्राप्य० चेदंबकं चक्षुः प्राप्यकारि हे योग ! अस्ति, तदाऽत्यासन्नमंजनादिकमर्थं कथं न गृह्णातीत्यर्थः, यद्यत्प्राप्यकारि दृष्टं तदत्यासन्नार्थग्राहकमपि । यथा शब्दादेः श्रोत्रादि, तथा च तर्कोल्लेख: यदि चक्षुः प्राप्यकारि स्यात्तदात्यासन्नार्थग्राहकमपि स्यादिति तर्कोपजीवितप्रयोगोऽपि यथा चक्षुर्न प्राप्यकारि अत्यासन्नार्थाऽग्राहकत्वात्, यन्नैवं तन्नैवं तथा स्पर्शनं, अथ तुष्यतु दुर्जन इति न्यायात्तावत्तवांगीकृतं चक्षुः प्राप्यकारितत्वमप्यंगीक्रियते, यदि विकल्पसहं स्यात् । तथाहि तथाविधं प्राप्यकारित्वं किमु कथं तेषु अर्थेषु गत्वा गृह्णाति, अथवा तेऽर्था अत्र देशे चक्षुः प्रदेशे आयांतीति विकल्पद्वयमिति वृत्तार्थः ॥७॥
३७८
--
द्विधाप्ययुक्तं हि गतस्य तस्य, वन्यादिकार्थेषु कथं न दाहः । भूभूधराद्यर्थसमागमेऽपि, नाच्छादनं स्यात्किमु तस्य चक्षुषः ॥८ ॥
॥ टीका ॥ अथ विकल्पद्वयमध्यान्यतरविकल्पांगीकारेणाऽदक्षतां यौगस्य दर्शयति, द्विधाप्य० द्विधापि उभयथापि अयुक्तं स्यान्नतु युक्तिमत्वं स्यात्तत्कथमिति तावत् प्रथमपक्षे दोषं दर्शयति यदि हि चक्षुस्तेषु गत्वा गृह्णाति तदा तस्य चक्षुषो वहन्यादिकार्थेषु गतस्य दाहो दहनं कथं न स्यात्, अथार्थाश्चक्षुः प्रदेशं समायांतीति द्वितीयविकल्पं दूषयति, भूः पृथ्वी, भूधरा: पर्वतास्तेषां चक्षुः प्रदेशे समागमे भूभूधराद्यर्था यदि चक्षुः प्रदेशे समायांति तदा किं स्यादित्यत आह तस्य चक्षुष आच्छादनं आवरणं किमु न स्यात्, ते ह्यागताश्चक्षुराच्छादयंति, तथा च लाभमिच्छतो मूलक्षतिस्तवायातीति वृत्तार्थः ॥८॥
-
-
न तैजसत्वादथ तस्य दाहो, वह्न्यादिना चेदिति नैवमेतत् । न तैजसं स्यात्तमसो ग्रहाद्यतस्तेजो न गृह्णाति च तत्क्षणोति ॥९॥
॥ टीका ॥ - अथेत्यादि वचश्चपेटाताडितो यौगवावदूक: किंचित्प्रतिवदति । न तैज० अथेति नन्वर्थे । ननु अस्य चक्षुषस्तैजसत्वाद्वयादिना न दाहः स्यात् । तेजो हि तेजसि गतं सद्वर्धते न तु हीयते इति चेन्नैवमिति प्रतिवदंतं वावदूकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org