________________
विभाग-२, श्रीयुक्तिप्रकाशविवरणम्
३७९
पुनर्वचश्चपेटाभिस्ताडयित्वा मौनं कारयति । एतच्चक्षुस्तैजसं न स्यात् कुत इति हेतुमाह - तमसोंऽधकारस्य ग्रहाद् ग्राहकत्वादित्यर्थः, तथा च तर्कोल्लेख: - यदि चक्षुस्तैजसं स्यात्तदा तमोग्राहकं न स्यात्, यद्धि तैजसं न तत्तमोग्राहकं आलोकवत्, प्रयोगोऽपि यथा चक्षुर्न तैजसं तमो ग्राहकत्वात्, यन्नैवं तन्नैव, यथालोक इति । अत्रार्थे हेतुमाह - यतः कारणात्तेजस्तमो न गृह्णाति, प्रत्युत तमः क्षणोति विनाशयति, अत्रापि तर्कोल्लेखः - यदि चक्षुस्तैजसं स्यात्तदा तमोध्वंसकं स्यात्, व्यतिरेकदृष्टान्तेन प्रयोगोऽपि तथैवेति स्थितमेतन्न तैजसं चक्षुरति, पूर्वोक्तविकल्पाऽसहत्वेन चक्षुर्न प्राप्यकारीति वृत्तार्थः ।।९।।
बोधस्य बोधांतरवेद्यतायां, यौग ! त्वया नो ददृशेऽनवस्था। सौवग्रहव्यग्रतया पदार्था - ग्रहश्च शंभोरसमग्रवित्त्वं ॥१०॥
॥ टीका ॥ - बोधस्य० हे यौग ! त्वया बोधस्य ज्ञानस्य बोधांतरवेद्यतायां ज्ञानांतरवेद्यतायां स्वीकृतायामित्यध्याहार्य, ज्ञानं ज्ञानांतरवेद्यमित्यंगीकृते त्वयाऽनवस्था न ददृशे, घटादिज्ञानं ज्ञानांतरग्राह्यं चेत्तदा ज्ञानांतरेण ग्राह्य तदंतरेणेति, च पुनर्दूषणाभ्युच्चये, ज्ञानस्य ज्ञानांतरवेद्यतायां घटादिविषयकज्ञानस्य सौवग्रहव्यग्रतया, स्वसंबंधा ग्रहः सौवग्रहस्तस्मिन् व्यग्रतया पदार्थानां ज्ञेयानामग्रहस्तथा च लाभमिच्छतो मूलक्षतिरायाता, तथाहि - पदार्थग्रहाय ज्ञानं त्वया कल्पितं तच्चेत् स्वग्रहेऽप्यसमर्थं, तदा परग्राहकं कथं स्यात् । स्वग्रहे व्यग्रत्वं च शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वेन प्रथमक्षणे स्वयमुत्पद्यते द्वितीयक्षणे ज्ञानांतरमुत्पन्नं सत् तद् गृह्णाति, तृतीयक्षणे तु गृहीतं सत्तद्विनश्यति, तथा च कुतस्तेन पदार्थग्रहः, पुनर्दूषणांतरमाह - शंभोरीश्वरस्याऽसमगवित्त्वमसर्ववेदित्वं स्यात्तथाहि - इश्वरज्ञानस्यापि ज्ञानत्वेन ज्ञानांतरग्राह्यत्वमेव वाच्यं त्वया । तथा च तद् ज्ञानं परोक्षं स्यात्, तथा च तेन स्वयं स्वज्ञानमपि न गृहीतं, तदा तेन कथं घटादयोऽर्था गृह्यते, अथेश्वरज्ञानं तथा नास्तीति चेत्तदाऽस्मदादीनामपि ज्ञानत्वे विशेषाऽभावात्तथा नास्तीत्यर्थस्तथा च प्रयोगः - ज्ञानं न ज्ञानांतरवेद्यं ज्ञानत्वादीश्वरज्ञानवदिति वृत्तार्थः ।।
सकर्तृकत्वेऽवनिभूधरादिषु, साध्येऽत्र हेतुर्बत कार्यभावः । न्यस्तस्त्वया तत्र कथं न दृष्टः, शरीरिजन्यत्वमुपाधिरेषः ॥११॥
॥ टीका || - सकर्तृ० चेदेक० चेत्स० बतेत्यामंत्रणे हे यौग ! त्वयाऽवनिः पृथ्वी, भूधराः पर्वतास्तदादिषु अर्थेषु सकर्तृकत्वे साध्ये कार्यभावः कार्यत्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org