SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३८० विभाग-२, श्रीयुक्तिप्रकाशविवरणम् हेतुर्यस्तः, तथाहि प्रयोगः - भूभूधरादिकं सकर्तृकं कार्यत्वाद् घटवत्, यश्चात्र कर्ता स शंभुरेवेति । तत्र तस्मिन्ननुमाने शरीरिजन्यत्वं साध्यव्यापकसाधनाव्यापकत्वात् व्यभिचारोन्नायकत्वाच्च कथं न त्वया एष उपाधिदृष्टः, अत्र एष इत्यनेन एवं ध्वन्यते । यदि व्यभिचारोन्नायकेतरः स्यादुपाधिस्तदाऽकिंचित्करत्वाददर्शनपि स्यात् अयमुपाधिस्तु व्यभिचारोन्नायकत्वेन व्याप्तिविघटकोऽपि कथं न दृष्टः, यदुक्तं तत्वचिंतामणौ - व्यभिचारोन्नयनं कुर्वन्नुपाधिर्याति दोषतामिति । तथा चायमर्थः - यत्कार्यं तच्छरीरिजन्यं कार्यत्वाद् घटवत्, ननु यथा घटादिकार्यस्य कर्ता कुलाल उपलभ्यते, तथा भूधरादिकार्याणां कः शरीरी कर्तास्तीति चेच्छृणु, स्वस्वकर्मसहकृताः पार्थिवादिजीवास्तत्कर्तारस्ते च संसारित्वेन शरीरिण एव, ननु पृथिव्यां जीवा संतीत्यत्र किं प्रमाणमिति चेदनुमानादेव तदास्थां कुरु, सकलापि पृथ्वी जीवच्छरीरं छेद्यत्वात्तरुवत् । मनुष्यशरीरवच्चेतीश्वरस्य जगत्कर्तृतानिरासः ॥११॥ चेदेक एवास्ति हरस्तदाऽसौ, न जीवभावं भजतेंऽतरिक्षवत् । अथेश्वरश्चेत् स्ववशः कथं न, करोति लोकं सुखिनं समग्रं ॥१२॥ ॥ टीका ॥ - अथ हर एक एवास्तीति यद्यौगा वदंति तन्निषेधायाह - चेद्यदि हर एक एवास्ति तदासौ शंभुजीवभावं न भजते, न प्राप्नोति, अंतरिक्षवद् गगनवत्, यथाहि गगनं एकत्वादजीवः तथायमपि, कथमिति चेच्छृणु, एकत्वं सजीवत्वं च तावन्न क्वचिद् दृष्टं एकत्वं चात्र सजातीयाऽभावः स च गगनादौ विद्यते, तस्माद्यथाजीवत्वे सति एकत्वं गगने विद्यते, तथात्रापि, तथा च प्रयोगः - ईश्वरोऽनात्मा एकत्वाद् गगनवत् । अथेश्वरस्य स्ववशत्वं निराकरोति । अथे त्यानंतर्यार्थे चेदीश्वरः स्ववशोऽस्ति परनिरपेक्षोऽस्तीत्यर्थः, तदा तत्तत्प्राणिगणोपार्जिततत्कर्मजन्यसुखदुःखप्रदाताऽसौ कथमंगीक्रियते, येन हि प्राक्तनं यादृशमदृष्टमर्जितं तादृशादृष्टानुसारी परमेश्वरस्तस्य तज्जनितं सुखं दुःखं वा ददातीति भवन्मतरहस्यवेदिनः । तथा च प्राणिगणोपार्जितकर्मवशत्वेनास्य स्ववशत्वं कुत इति, अथेशस्य स्ववशत्वं यदि स्यात् तदा समग्रं लोकं कथं नासौ सुखिनं करोति, कथमिति चेच्छृणु, लोकं किल सृजन्नसौ कारुणिको अकारुणिको वा, चेदकारुणिकस्तदास्य देवत्वमेव व्याहतं, म्लेच्छवनिष्ठुरहृदयत्वात्तस्येति, कारुणिकश्चेत्तदा स्ववशत्वे सति कारुणिकः सन् कथं न समग्रं लोकं सुखिनं करोति, कारुणिकत्वविशिष्टस्ववशत्ववतस्तथास्वभावत्वादिति वृत्तार्थः ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy