________________
विभाग-२, श्रीयुक्तिप्रकाशविवरणम्
चेत्सर्वगत्वं हि हरस्य मन्यसे - ऽविज्ञानविज्ञानविभक्त आत्मा। मान्यस्तदीयोऽथ समग्रगत्वे, ज्ञानस्य तत्त्वं विजहाति तत्पुनः ॥१३॥
॥ टीका ॥ - अथ हरस्य विभुत्वं निषिध्यते, चेत्० हरस्य शंभोश्चेत्त्वं सर्वगत्वं विभुत्वं मन्यसे तदा तदीय आत्मा ईश्वरात्मा अविज्ञानविज्ञानविभक्तो मान्यः, भावार्थस्त्वयं - यदीश्वरो व्यापकस्तदा तद्गतं ज्ञानं व्यापकमव्यापकं वा, चेद्व्यापकं तर्हि सिद्धांतबाधः, चेदव्यापकं तदैकस्मिन्नीश्वरात्मखंडे ज्ञानं, अपरस्मिन्नात्मखंडेऽज्ञानं, तथा चाऽविज्ञानविज्ञानाभ्यां विभक्त आत्मा तदीय इति । अथेश्वरस्य व्यापकत्वेन तद्गतं ज्ञानमपि व्यापकमेव ब्रूमः, अस्मसिद्धांतं वयमेव विज्ञो न भवंत इति चेत्तर्हि ईश्वरज्ञानमज्ञानमेव स्यात्, तथा च प्रयोगः - इश्वरज्ञानमज्ञानं व्यापकत्वात्, यदेवं तदेवं, यथा गगनमितीश्वरस्य सर्वगत्वनिरास इति वृत्तार्थः ।।१३।। चिच्छक्तिसंक्रांतिवशेन बुद्धि - जडापि सांख्यस्य तवाऽजडैव । आभासते यन्न च युक्तमेत-च्चिच्छक्तिराप्नोतिनसंक्रमं यतः॥१४॥
॥ टीका ॥ - अथ सांख्यमतं निराकरोति, चिच्छक्ति० अहो पुरुष सांख्य ! तव मते जडापि बुद्धिश्चिच्छक्तिसंक्रांतिवशेनाऽजडैवाभासते, अयमर्थः - बुद्धिर्जडत्वेन न स्वपरप्रकाशिकाऽस्ति, यदा चैतस्यां चिच्छक्तेः संक्रमः स्यात्तदा प्रकाशिकाऽपि स्यादित्यजडैव तवाभासते, न चैतद्युक्तं, कुत इत्याह यतः कारणात् चिच्छक्तिः संक्रमं नाप्नोति कथमिति चेच्छृणु, संक्रमास्तावन्मूर्त-धर्मश्चिच्छक्तेरमूर्तधर्मत्वात् संक्रमो नोत्पद्यत इति वृत्तार्थः ॥१४॥ तस्या अथः संभवनेऽपि बुद्धि-र्जडत्वतो न क्रियते सचेतना। सचेतनस्यापि नरस्य संक्रमात्, यद्दर्पणो नैव भवेत् सचेतनः ॥१५॥
॥ टीका ॥ - तस्याः अथ तुष्यतु दुर्जन इति न्यायात्तव संतोषायैवमुच्यते, अथो अथानंतरं तस्याश्चिच्छक्तिसंक्रांतेः संभवनेऽपि संभवेऽपि जडा सती बुद्धिः, सचेतना नैव क्रियते, कुत इत्याह- यत्कारणात् सचेनतस्यापि नरस्य दर्पणे संक्रमात् दर्पण: सचेतनो न स्यात्, दर्पणस्य सचेतनाऽचेतनसंक्रमावसरे तुल्यत्वादिति वृत्तार्थः ।।१५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org