________________
३८२
विभाग-२, श्रीयुक्तिप्रकाशविवरणम्
यदि स्तः प्रकृतेरेव, बंधमोक्षौ तदा ध्रुवम्। वंध्याजस्येव जीवस्या - ऽवस्तुत्वं न भवेत्कथं ॥१६॥
॥ टीका ॥ - यदि स्त० भो सांख्य ! यदि प्रकृतेरेव बंधमोक्षौ स्तः, तदा ध्रुवं निश्चितं वंध्याजस्येव वंध्यासुतस्येव जीवस्यात्मनोऽवस्तुत्वं कथं न भवेदपि तु भवेदित्यर्थः, कथमिति चेच्छृणु, यथाहि वंध्यासुतस्यार्थक्रियाकारित्वाऽभावात् अवस्तुत्वं, तथा जीवस्याऽर्थक्रियाकारित्वाऽभावादवस्तुत्वं, तथाहि - जीवस्यार्थक्रिया बंधो मोक्षश्च, तौ च तस्य तव मते न स्त इति बंध्यासुतसदृश आत्मा स्यादितिवृत्तार्थः ॥१६॥ न स्तश्चेदात्मनो बंध - मोक्षौ तर्हि कथं त्वया। भोगीति मन्यते बद्धं, प्रकृत्या भोगमस्ति यत् ॥१७॥
॥ टीका ॥ - नस्तश्चे० चेद् बंधमोक्षौ आत्मनो न स्तस्तर्हि आत्मा भोगीति त्वया कथं मन्यते, भोगो हि शुभाऽशुभकर्मबंधजनितः, स चास्य नास्तीति न भोगित्वव्यपदेशो युक्तः, तथा च प्रकृतेरेव त्वया भोगित्वं वाच्यं, कुत इत्याह - यत्कारणात् भोग्यं कर्म प्रकृत्येव बद्धं, नान्येनेति वृत्तार्थः ॥१७॥ स्वयं च विहितं कृत्यं, स्वयं भोक्तव्यमेव भोः । दृश्यते ह्यत्र लोकेऽपि, तद्भोगस्तस्करादिषु ॥१८॥
॥ टीका ॥ - अथ मंत्रिणेवान्येन कृतं राज्ञेवान्येन भुज्यमानमपि दृश्यत इति मंत्रिस्थानीयप्रकृत्या बद्धं आत्मना भुज्यमानमस्तीत्यत आह स्वयंच०, भो सांख्य ! स्वयं विहितं कृत्यं स्वयमेव भोक्तव्यं नाऽपरेण, हि यतः कारणाल्लोके तद्भोगः स्वयंकृतभोगः स्वस्यैव तस्करादिषु दृश्यते, येनैव हि तस्करेण चौर्यं कृतं, तस्यैव तस्करस्य शूलारोपणादि क्रियमाणमस्ति, नापरस्येति, मंत्रिद्रष्टांतस्त्वत्राऽसत्य एवेति, न हि सर्वमपि मंत्रिणा कृतं राजा भुनक्ति, यच्च किंचिद् भुनक्ति तत्तु तेन मंत्रिणा करणभूतेन निर्मितत्वात् तथा चास्मन्मतमेव सुस्थं, करणभूतैः कर्मभिः कृतं जीवो भुनक्तीति वृत्तार्थः ॥१८॥ एकांतनित्यं गगनादिवस्तु, स्वभावभेदात्किमु कार्यकारि । स्वभावभेदस्तुन तत्रचेद्भवेद् - भवेत्तदा तज्जनितार्थसंकरः ॥१९॥
॥ टीका ॥ - अथ सांख्यमतं निरस्य वैशेषिकमतं निराकरोति । एकांत० अहो वैशेषिक ! गगनादि गगनकालदिगात्मादिकं वस्तु एकांतनित्यं सत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org