________________
विभाग- २, श्रीयुक्तिप्रकाशविवरणम्
स्वभावभेदाद् भिन्नस्वभावकत्वात्-कार्यकारि किमु कथं भवति न कथमपीति, भावार्थस्त्वयं यदि गगनादि वस्तु नित्यं तदा कथं स्वभावभेदः, संभवति अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावं हि नित्यं, गगनादिकं हि येनैव स्वभावेन तव मते प्रथमं शब्दादिकं जनयति, न तेनैव स्वभावेन द्वितीयं शब्दादिकं जनयति, एवमात्मादिना सुखदुःखादिजननेऽप्यवसेयं, न हि येनैव स्वभावेनात्मा सुखं जनयति तेनैव स्वभावेन दुःखमपीति, तथा च स्वभावभेदात् स्वभाववतोऽपि भेद इति, ननु स्वभावभेदो मास्तु, एक स्वभावेनैव गगनादिवस्तु कार्यकारि भविष्यतीत्याशंक्याह चेद्यदि तत्र गगनादिवस्तुनि कार्यजननाऽवसरे स्वभावभेदो न भवेत्तदा तदिति गगनादिना क्रमेण जनितार्थानां संकरः स्यात्, कथमिति चेच्छृणु, येनैव स्वभावेन प्रथमं शब्दं जनयति गगनं, तेनैव स्वभावेन द्वितीय तृतीयचतुर्थशब्दान् जनयति, समवायिकारणस्वभावाभेदात्तदुत्थकार्यस्याप्यभेद एकस्वभावजन्यत्वात् । न ह्येकस्वभावेन मृदा जनिते एकस्मिन्नेव घटे भेद उपलभ्यते, द्वितीयघटे तु स्वभावभेदेन मृदा जनितत्वाल्लभ्यतेऽपि भेदः एवं चात्माऽपि एकस्वभावत्वात् येनैव स्वभावेन सुखं जनयति तेनैव स्वभावेन दुःखमपि तथा चैकस्वभावत्वात् सुखदुःखसांकर्यं स्यात्तथा च महती भवतो हानिर्लोकव्यवहारलोपात्, एवं कालादिष्वपि नेयमिति, तस्मान्न तद् गगनादि एकांतनित्यं स्यादिति वृत्तार्थः ॥१९॥
न सर्वथाऽनित्यतया प्रदीपादिकस्य नाशः परमाणुनाशात् । तद्दीपतेजःपरमाणवोऽमी, आसादयत्येव तमोऽणुभावं ॥२०॥
-
--
-
॥ टीका ॥ अथार्थस्य सर्वथाऽनित्यतां निराकरोति, न सर्व० हे वैशेषिक ! प्रदीपादिकस्यार्थस्य सर्वथाऽनित्यतया नाशो न स्यात्, कुत इत्याह परमाणुनाशात्, यदि प्रदीपस्य सर्वथाऽनित्यतया सर्वथा नाशोऽगीक्रियते, तदा तदारं भकपरमाणूंनामपि नाशः स्यात् एतच्च तवाप्यनिष्टं, ननु पूर्वं दृश्यमाणप्रदीपाऽदर्शने को हेतुरित्यत आह तदिति स चासौ दीपश्च तद्दीपस्तस्मिन् ये तेजः संबंधिपरमाणवः अमी इति उभयसम्मताः तमोरूपतया परिणता दृश्यंते, न पूर्वदृश्यमाणप्रदीपो दृश्यत इति तद्दर्शनेऽयमेव हेतुरिति वृत्तार्थः ॥२०॥
Jain Education International
३८३
-
द्रव्यं तमो यद् घटवत् स्वतंत्र तया प्रतीतेरथरूपवत्त्वात् । नाऽभावरूपं प्रतियोगिनोऽपि, तथा स्वरूपं किल केन वार्यं ॥ २१ ॥
For Personal & Private Use Only
www.jainelibrary.org
-