________________
विभाग- २, श्रीयुक्तिप्रकाशविवरणम्
॥ टीका ॥
ननु तमसोऽभावरूपत्वेन कथं परमाणुजन्यत्वमित्यत आह द्रव्यंत० हे वैशेषिक ! तमो द्रव्यं कुत इत्याह स्वतंत्रतया प्रतीते:, यत् स्वातंत्र्येण परनिरपेक्षतया प्रतीयते तद् द्रव्यं, घट इवेति । अथेति द्वितीयहेत्वर्थे रूपवत्त्वात्तद्द्रव्यं घटवदिति । अथाऽभावरूपत्वे दोषमाह तमो नाऽभावरूपं, कुत इत्याह- प्रतियोगीति, तमसोऽभावरूपत्वे प्रतियोगी तावदालोके वक्ष्यते भवता, अस्माभिस्तु वक्ष्यते तम एव प्रतियोगी, तस्याऽभावस्तु आलोक इति, तथा च भवता प्रोच्यमानप्रतियोगिनोऽपि तथा स्वरूपं केन वार्यं ? न केनापीत्यर्थः, इत तमसो द्रव्यत्वात्परमाणुजन्यत्वमिति वृत्तार्थः ॥२१॥
३८४
-
,
काणाद ! शब्दस्तव चेन्नभोगुणो नातींद्रियः स्यात्परिमाणवत्कथं । गुणोऽपि चेत्तर्हि तदाश्रये च द्रव्येऽगृहीते किमु गृह्यतेऽसौ ॥ २२ ॥ ॥ टीका ॥ अथ शब्दस्य गुणत्वं निषेधयति । काणाद० हे काणाद तव मते चेन्नभोगुणः शब्दोऽस्ति तदाऽतींद्रिय इंद्रियाऽग्राह्यः कथं न स्यात् परिमाणवत् । अधिकाराद् गगनपरिमाणमिव यथा गगनपरिमाणं तद्गुणत्वेनाऽतींद्रियं तथा शब्दो भवेदिति, तस्मान्न गगनगुणः शब्द: ननु शब्दस्य गगनगुणत्वं मास्तु तथाऽपि कस्यचिद् द्रव्यांतरस्य गुणोऽयं भविष्यतीति वैशिषेककदाशां निराकरोति, चेत् शब्दो गुणस्तर्हि तदाश्रये द्रव्येऽगृहीतेऽसौ कथं गृह्यते, तस्मान्नायं गुणोऽपीति वृत्तार्थः ॥ २२॥
-
-
,
द्रव्यं हि शब्दो गतियुक्तभावाद्, व्याघातकत्वाच्च गुणान्वितत्वात् । अर्थक्रियाकारितया च किं चानुद्भूतरूपादिगुणान्वितोऽसौ ॥२३॥
1
॥ टीका ॥ अथ शब्दस्य गुणत्वं निरस्य स्वमतसिद्धं द्रव्यत्वं दर्शयति, द्रव्यं हिo || शब्दो द्रव्यं, कुत इत्याह- गतियुक्तभावाद् गतिमत्त्वादित्यर्थः, गतिर्हि द्रव्य एव दृष्टा न पुनर्गुणादिषु द्रव्यत्वे हेतुमाह - व्याघातकत्वात् यद् व्याघातकं तद् द्रव्यमेव दृष्टं, तथा कुड्यादि, गुणादीनां व्याघातकत्वाऽसंभवात्, दृश्यते च तीव्रशब्दैर्मंदशब्दानां व्याघातकरणमिति । पुनर्द्रव्यत्वे हेत्वंतरमाह - गुणान्वितत्वात्, गुणाः संख्यादयस्तैरन्वितत्वात् । एको द्वौ त्रयो वा शब्दा मया श्रुता इत्यबाधितप्रतीतेर्जायमानत्वात् । अथ पुनस्तस्य द्रव्यत्वे हेतुमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
-