________________
विभाग- २, श्रीयुक्तिप्रकाशविवरणम्
अर्थक्रियाकारितया, यदर्थक्रियाकारि तद् द्रव्यं, यथा घट इति, ननु नीलरूपस्य गुणत्वेऽपि नयनतेजोवृद्धिजनकत्वेनार्थक्रियाकारित्वाद् व्यभिचार इति चेन्न । न हि नीलं रूपं नयनतेजःप्रवर्द्धकं, किं तु तदाश्रयद्रव्यमेव । तथाहि नीलरूपाश्रये द्रव्ये गृहीते तद्गृहीतुं शक्यते तयोश्च सर्वथाभेदाऽभावेन युगपद् ग्रहात्, नीलरूपविशिष्टं द्रव्यं गृहीतं सन्नयनतेज:प्रवर्द्धकमिति स्थितमेतत् ननु शब्दश्चेद् घटवद् द्रव्यं तर्हि तस्मिन्निव तत्र कथं रूपादिगुणा नोपलभ्यंत इत्याशंक्याह किंचेति, आकाशगुणनिराकरणार्थं असौ शब्दोऽनुद्भूतरूपादिगुणान्वितो भवति, अत्र हि रूपादिगुणास्तु संत्येव, परमनुद्भूता इति नो दृश्यंते, वायाविव, ननु कस्तावद्वायावनुद्भूतगुण इति चेच्छृणु रूपादिरेव, ननु वायौ रूपमेव नास्ति, अनुद्भूत्वं तत्र तस्य कुत इति चेन्न, स्पर्शेन वायोरूपस्य साधितत्वात् तथा हि प्रयोग: वायु रूपवान् स्पर्शवत्त्वात्, यस्तथा स तथेति, वायुवत् शब्दोऽप्यनुद्भूतरूपवानिति वृत्तार्थः ॥२३॥
-
नभः प्रदेश श्रेणिष्वा दित्योदयवशाद् दिशां ।
पूर्वादिको व्यवहारो, व्योम्नो भिन्ना न दिक्ततः ॥२४॥
-
॥ टीका ॥ अथ वैशेषिकमतसिद्धदिगाकाशयोर्भेदं निराकरोति । नभः प्र० । है वैशेषिक ! त्वया यतः पूर्वादिदशप्रत्यया जायते सा दिक्, गगनाद्भिन्नेति निगद्यते तच्चाऽनुपपन्नं, दशप्रत्ययानां गगनादेव जायमानत्वादिति दर्शयति नभः प्रदेशश्रेणिषु आकाशप्रदेशश्रेणिषु आदित्यस्य भानोरुदयवशात् पूर्वादिको व्यवहारो व्यवहतिर्जायते, अयमर्थः - येषु नभः प्रदेशेषु सूर्य उदेति ते नभः प्रदेशाः पूर्वदिक्त्वव्यवहारजनकास्त एव नभःप्रदेशाः पूर्वदिगित्युच्यते, शेषासु नवस्वप्यनयैव रीत्या योज्यं, तत: कारणात् व्योम्नो दिक् न भिन्नाः, व्योमप्रदेशानामेव दिक्त्वादिति वृत्तार्थः ॥२४॥ आत्मा महापरिमाणा - धिकरणं न संभवी । असाधारणसामान्य - वत्त्वेऽनेकत्वतः सति ॥ २५ ॥
-
,
-
३८५
॥ टीका ॥ अथात्मनः परमतसिद्धं महापरिमाणाधिकरणत्वं निषेधयति । आत्मा म० । हे वैशेषिक ! आत्मा महापरिमाणाधिकरणं न संभवी, यथा गगनं महापरिमाणाधिकरणं संभवति न तथात्मा संभवति, कुत इत्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org