________________
विभाग- २, श्रीयुक्तिप्रकाशविवरणम्
असाधारणसामान्यत्वे सत्यनेकत्वतः अनेकत्वादित्यर्थः । अनेकत्वादित्युक्ते सत्तादिसामान्येषु व्यभिचार:, अत उक्तं सामान्यवत्वे सति तथा चाकाशकालादिषु व्यभिचारः, नत्वाकाशादीनामनेकत्वं कुतस्तेषामेकत्वादितिचेन्न । घटाद्युपाधिभेदात्तेषामनेकत्वमिति तेषु व्यभिचारस्तन्निरासायाऽसाधारणसामान्यवत्त्वे सतीति तेषु असाधारणसामान्यमाकाशत्वकालत्वादिकं न संभवति, तच्च भवताऽपि सामान्यत्वेन नांगीकृतमिति, द्रष्टांतश्चात्र घट एव, घटे ह्येतादृशहेतुसाध्ययोः प्रवर्तमानात्, एवमनेकयुक्तय आत्मनो विभुत्वनिषेधिकास्संति, ताश्चातीवग्रंथगौरवभयान्नोच्यंत इति वृत्तार्थः ॥२५॥
३८६
,
नास्त्यात्मनश्चेत्तव सक्रियत्वं, देशांतरे चेह भवांतरे वा । गतिः कथं तर्हि भवेत्तथा च, वायोरिवास्मान्न विभुत्वमस्य ॥ २६ ॥
॥ टीका ॥ नास्त्या० ॥ हे वैशेषिक तव मते चेद्यदि आत्मनः सक्रियत्वं नास्ति तर्हि देशांतरे वा भवांतरे वात्मनः कथं गतिर्भवति, यद्यात्मनः सक्रियत्वं नेष्यते तर्हि तस्य परलोकगतिर्वा न स्यात्, तथा च तव नास्तिकादप्याधिक्यं, नास्तिकेन हि तस्य परलोकगतिर्न स्वीक्रियते देशांतरगतिस्त्वध्यक्षसिद्धा स्वीक्रियते एव, त्वं तु तामपि निषेधयसीत्यर्थः । तस्मादात्मनः सक्रियत्वादिति हेतोरस्यात्मनो विभुत्वं वायोरिव न स्यात् । तथा च प्रयोगः आत्मा न विभुः सक्रियत्वाद्वायुवदिति वृत्तार्थः ॥२६॥
जीवेऽत्र मध्यं परिमाणमस्त्य - विभुत्वतः कुंभ इवावदातं । पर्यायनाशादथ पिंडभावान्नानित्यता नापि च नित्यतास्मिन् ॥२७॥
॥ टीका ॥ अथ विभुत्वेऽसिद्धे सति मध्यमपरिमाणाधिकरणत्वमात्मनो दर्शयति, जीवेऽत्र०, अत्र जीवेऽस्मिन्नात्मनि अस्मिन्नित्युक्ते केवलिसमुद्घातावस्थापन्नात्मनिरास:, मध्यं विभुत्वाणुत्वविकलं परिमाणमस्तीति साध्यवत्पक्षनिर्देशः, कुत इत्याह अविभुत्वतः कुंभ इव घट इव, यथा कुंभे घटे विभुत्वाऽभावान्मध्यपरिमाणमस्तीति भाव:, अवदातं स्पष्टं यथा स्यात्तथा, ननु तस्मिन्नात्मनि किं नित्यतोच्यते, उताऽनित्यतेत्याशंक्याह, पर्याय०, पर्यायाणामात्मसंबंधिनां देवनारकतिर्यक्त्वादीनां नाशाद् ध्वंसान्न नित्यता,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
-