________________
३७२
विभाग-२, सर्वसिद्धान्तप्रवेशक:
१३१प्रमेयमिति । दर्शनाद् यथा भस्मादिविकारमुपलभ्य १३२दाहशक्तिवतेः प्रमीयते । तथा अपराण्यपि उदाहरणानि शास्त्रादुत्प्रेक्ष्य वक्तव्यानि । अभावोऽप्यनिमित्तम्, अभावविषयत्वात् । तस्माच्चोदनालक्षण एव धर्मो नान्यलक्षण इति स्थितम् । तथा वर्णानामेव वाचकत्वम्-अर्थप्रतिपत्तिहेतुत्वम् । तच्च बाह्य एवार्थे, नान्यत्र । यत उक्तम्-"गकारौकारविसर्जनीया १३२इति भगवानुपवर्षः" [शाबरभाष्य, १।१।५, पृ० ४५] वायोश्च वक्त्रा प्रेरितस्य श्रोतुः श्रोत्रदेशं प्राप्तस्य ये संयोगविभागास्तेऽभिव्यञ्जका गकारादिवर्णानाम् । ते १३४चाभिव्यक्ता एव वाचकाः, नान्यथा । नित्यश्च१३५ शब्दार्थयोः सम्बन्धः । न च मीमांसकानां वर्णव्यतिरिक्ते पदवाक्ये स्तः, तेष्वेव पदवाक्योपचारात् ।
इति १३६मीमांसकसिद्धान्तः समाप्तः ॥
[लोकायतिकमतम्] बृहस्पतिमतानुसारिविहितप्रमाणप्रमेयस्वरूपनिरूपणाय:३७ समासेनेदमाह । १३८तत्र च प्रमेयनिरूपणायाह- “१३९पृथिव्यापस्तेजो वायुरिति तत्त्वानि" [ बृह० सू०] आह-तत्त्वान्तरमप्यस्ति शरीरेन्द्रियादि१४० । न तत्त्वान्तरम्, यतः "तत्समुदाये शरीरेन्द्रियविषयसंज्ञा" [बृह० सू०] । शरीरं भूतसमुदायः तथेन्द्रियाणि विषयाश्चेति । तस्माच्चत्वार्येव तत्त्वानि । ज्ञानं तत्त्वान्तरमिति चेत्,
१३१. प्रमेयम् B ॥ १३२. वह्नौ A ॥ "तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । वह्ने... ॥३०॥"-मी० श्लो० वा० अर्था० ॥१३३. इति गवानुवेशः A । इति ताल्वाद्यनुकर्ष B । “अथ गौः इत्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानुपवर्षः।"-शाबरभाष्य ॥१३४. चाभिव्यञ्जका एव न वाचका B । “अभिघातेन हि प्रेरिता वायवः स्तिमितानि वाय्वन्तराणि प्रतिबाधमानः सर्वतोदिक्कान् संयोगविभागानुत्पादयन्ति यावद्वेगमभिप्रतिष्ठन्ते।"शाबरभाष्य १।१।१३ ॥ १३५. नित्यः शब्दा A ॥१३६. कमतस्य दिक्प्रदर्शनमिति B॥ १३७. रूपप्रदर्शनाय B ॥ १३८. तत्र प्रमेयनिरूपणार्थमाह B ॥ १३९. "ननु यधुपप्लवस्तत्त्वानां किमापा... अथातस्तत्त्वं व्याख्यास्यामः । पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा"-तत्त्वोप० सिंह पृ० १ । “पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा"-धर्मसं० वृ० पृ० २५ A७२ B| "यदुवाच वाचस्पतिः-'पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरन्द्रियविषयसंज्ञाः, तेभ्यश्चैतन्यम्' इति"-षड्द० बृ० पृ० १२४ । स्या० र० पृ० १०८५॥१४०. दिकं तत्त्वान्तरं यतस्तन्न तत्समु B॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org