________________
विभाग-२, सर्वसिद्धान्तप्रवेशक:
३७१
"चोदनालक्षणोऽर्थो१२४ धर्मः" [जै० सू० १।१।२] चोदना च क्रियायाः प्रवर्तकं वचनमाहुः१२५, यथा 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादि । तेन धर्मो लक्ष्यते, न पुनः प्रत्यक्षादीना।
आह-कथं प्रत्यक्षमनिमित्तम् ? यतस्तदेवंविधम्-“सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्त २६ विद्यमानोप१२७ लम्भकत्वात्" [जै० सू० १।१।४] तथा अनुमानमप्यनिमित्तम्, प्रत्यक्षपूर्वकत्वात् तस्येति । तथा उपमानमप्यनिमित्तमेव ।
यतस्तस्य गो-गवयसादृश्यग्रहणे सति १२८गौरेव प्रमेयः । तथा अर्थापत्तिरपि, सा च द्विधा-श्रवणाद् दर्शनाच्च । श्रवणाद् यथा पीनो देवदत्तो दिवा न भुङ्क्ते, अर्थादापन्नम्-रात्रौ भुङ्क्ते । १२९अस्याश्च रात्रिभोजन१३० - वाक्यमेव ___ १२४. क्षणो धर्मः A ॥१२५. "चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः"-शाबरभाष्य १।१।२ ॥ १२६. मित्तं च विद्य A ॥१२७. लम्भत्वात् A । “लम्भनत्वात्" इति मद्रिते जैमिनिसूत्रे ।। १२८. गौरिव गवयः प्रमेयः B । अत्रेदं ध्येयम् । 'गौरिवः गवयः' इत्युपमानं नैयायिकानां शोभते । मीमांसकग्रन्थेषु 'एतेन (गवयेन) सदृशो गौः' इत्येव उपमानस्वरूपं वर्णितं सर्वत्र शाबरभाष्य-मीमांसाश्लोकवार्तिकादिषु । एवमेव चानूदितमन्यैरपि जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति । यदा श्रुतातिदेशवाक्यस्य वने गवयपिण्डदर्शनान्तरं नगरं गतं गोपिण्डमनुस्मरतः ‘एतेन सदृशो गौः' इति ज्ञानं तदुपमानम् । तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः तद्वृत्ति वा गवयसादृश्यम्।"-न्यायमं० पृ० १३२ । यद्यपि न्यायावतारवृत्तौ (पृ० १९) 'अयं तेन सदृशोऽनयोर्वा सादृश्यम्' इति वर्णितमुपमानस्वरूपम्, तत्र साम्मत्याय च संवादितः "तस्माद् यद् दृश्यते तत् स्यात् सादृश्येन समन्वितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥" इति श्लोकः किन्तु मीमांसकानामेवेदं मतमिति आहत्य वक्तुं न पार्यते, यतोऽयं श्लोकः मीमांसश्लोकवार्तिके "तस्माद् यत् स्मर्यते तत् स्यात्" ॥ [मी० श्लो० वा० उपमान० ३७ A] इति पाठभेदेनैवोपलभ्यते तथैव च व्याख्यातोऽपि व्याख्यातृभिः, यत्तु “प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनम् ॥७४॥" इत्यभिहितं षड्दर्शनसमुच्चये हरिभद्रसूरिपादैः तत्तु केनचिदप्यभिप्रायविशेषेण संगमनीयम् । यतस्त एव हरिभद्रसूरिपादाः शास्त्रवार्तासमुच्चयस्वोपज्ञवृत्तावित्थमभिदधिरे-"नैवोपमानेनापि गम्यते सर्वज्ञः, तस्य सादृश्यविषयत्वात् 'अनेन दृश्यमानेन पदार्थेन सदृशस्तदीयो गौः' इति प्रवृत्तेः।" पृ० ८० A ॥ १२९. अत्र रात्रि A ॥ १३०. जनमेव B ॥ "पीनो दिवा न भुङ्क्ते चेत्येवमादिवचः श्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥५१॥ तामर्थविषयां केचिदपरे शब्दगोचराम् । कल्पयन्ति... ॥५२॥" इत्युक्त्वा अन्ते वाक्यविषयत्वं प्रसाधितं मीमांसाश्लोकवार्तिके कुमारिलेन । “पीनत्वे सति दिवा भोजनप्रतिषेधस्य आत्मलाभो रात्रिवाक्यं नोपपद्यते इति श्रुतार्थापत्तेः प्रमाणविषयत्वेन दृष्टार्थापत्तेर्वैलक्षण्यम्" । -मी० श्लो० वा० भट्टोम्बेकवृत्ति पृ० ४०४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org