________________
३७०
विभाग-२, सर्वसिद्धान्तप्रवेशकः
[बौद्धदर्शनम्] अथ १११बौद्धमतप्रदर्शनायेदमुपदिश्यते११२ । तत्र हि पदार्था द्वादशाऽऽयतनानि । तद्यथा-चक्षुरिन्द्रियायतनं रसेन्द्रियायतनं घ्राण-स्पर्श११३ श्रवण-मनआयतनं रूपायतनं रसायतनं गन्धायतनं स्पर्शायतनं शब्दायतनं धर्मायतनम् । ११४धर्माश्च सुखादयः ।
आह-कः पुनरेषां परिच्छेदहेतुः? प्रमाणम् । *तद् द्विधा-"प्रत्यक्षमनुमानं च । तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम्" [न्यायबिन्दु १।३, ४] कल्पना नाम११५जात्यादियोजना । तत्र नामकल्पना डित्थ इति । जातिकल्पना गौरिति । गुणकल्पना शुक्ल इति । क्रियाकल्पना पाचकः पाठक इति । द्रव्यकल्पना दण्डी विषाणीति । अनया कल्पनया रहितं प्रत्यक्षं प्रमाणमित्युच्यते।
अथानुमानम्-त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् । रूपत्रयं च पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे ११६चासत्त्वमेवेति । अस्मात् त्रिरूपाल्लिङ्गा ११७निश्चिताल्लिङ्गिनि ११८साध्यधर्मविशिष्टे धर्मिणि ज्ञानमनुमानम् । इत्येवं द्वे एव प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात् ।
इति ११९सुगतसिद्धान्तः समाप्तः ॥
[मीमांसकदर्शनम्] मीमांसकसिद्धान्ते१२० वेदपाठान्तरं धर्मजिज्ञासा कर्तव्या । यतश्चैवं १२१ततस्तस्य निमित्तपरीक्षा । निमित्तं १२२च चोदना । १२२यत उक्तम्
१११. बुद्ध A ॥११२. नायैवमाह तत्र B ॥ ११३. “पञ्चेन्द्रियाणि शब्दाद्या विषया: पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥८॥"-षड्द० स० । एतान्येव द्वादशायतनानि अभिधर्मकोशेऽपि ॥ ११४. “धर्माः सुख-दुःखादयः, तेषामायतनं गृहं शरीरमित्यर्थः"-षड्द० स० बृहद्वृत्ति पृ० १३ All ★ तच्च B॥ ११५. जात्यादिकल्पना BI"अपरे तु मन्यन्ते-प्रत्यक्षं कल्पनापोढमिति । अथ केयं कल्पना? नामजात्यादियोजनेति ।"न्यायवा० १।१।४। पृ० १३० । विस्तारार्थं दृश्यताम् - प्र० समु०१।३ तत्त्वसं० पं- पृ० ३६९ । न्यायवा० ता० पृ० १३० । नयचक्रवृत्ति पृ० ५९-६० ॥ ११६. सत्त्वमेवेत्येतस्मात् B॥ ११७. ङ्गाज्ञाननिश्चितालिङ्गिनि A ॥ ङ्गान्निश्चितं लिङ्गिनि B ॥११८. साध्य B नास्ति ॥ ११९. सुगतमतं समाप्तम् B॥१२०.राद्धान्ते B॥१२१. "तस्य निमित्तपरीष्टिः" जै० स० १।१३ ॥१२२. च B नास्ति ।। १२३. यतश्चोक्तम् B॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org