Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
Teaching Point: किना जगत्-declension
एकविंशतितमः
भारतीया संस्कृतिः
पाठः
जगत् चिन्तनधारा विशिष् अन्तरेण निदर्शनभूत सहिष्णता प्रापक लक्ष्यम् अन्ततः अवलम्बिन् अनुव्रत कलहाय __प्र+ यत् रम् सत्कारः सम्+मानय्
जगति कस्या अपि जातेः काचित् चिन्तनधारा संस्कृतिः वा भवति यया सा जातिः अन्याभ्यः विशिष्यते। संस्कृतिमन्तरेण न काsपि जातिः राष्ट्रस्य रूपेण जीवति । भारतीयानामपि च स्वा विशिष्टा जीवनपद्धतिः चिन्तनपद्धतिश्च । अस्माकं संस्कृत्यां यानि कानिचित् प्रमुखानि वैशिष्ट्यानि सन्ति, तेषु एव निदर्शन-भूतानि कानिचित् वयं विचारयिष्यामः ।
भारतीयस्य जीवनस्य प्रथमं वैशिष्ट्यमस्ति-परमधर्म-सहिष्णुतेति । भारतीयाः अनुभवन्ति यत् जगतः सर्वे एव धर्माः ईश्वर-प्रापकाः मोक्ष-प्रापकाः वा । सर्वे धर्माः एकमेव लक्ष्यम् अन्ततः गच्छन्ति । एतत् एव कारणं यत् अनेकेषां धर्माणाम् अवलम्बिनः परस्परमनुव्रताः अत्र स्नेहेन वसन्ति परस्परं च न कलहायन्ते ।
द्वितीयं वैशिष्ट्यमस्ति-आत्मशुद्धिरिति । आत्म-शुद्ध्यै एव स्थान-स्थाने सत्संगा भवन्ति । राग द्वेषं च त्यजत, दयां परोपकारं च नित्यं कुरुत-इत्यादिभिः उपदेशैः जनाः तथा भवितुं प्रयतन्ते ।
778

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130