Book Title: Sandesha Rasaka Author(s): Abdul Rahman, Jinvijay, H C Bhayani Publisher: Bharatiya Vidya Bhavan View full book textPage 8
________________ ->० १४ १५ १६ ॥सिंघीजैनग्रन्धमालासंपादकप्रशस्तिः॥ स्वति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नानी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः । मुज-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वय॑ते कुलीनत्वं तत्कुल जातजन्मनः॥ पत्री राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य-रूप-लावण्य-सुवाक्सौजन्यभूषिता ॥ ऋत्रियाणीप्रभापूर्णा शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा ह्यसौ ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवीहंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः । भागतो मरुदेशाद् यो भ्रमन् जनपदान बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तरसूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ . . . दौर्भाग्यात् तच्छिशोर्वाल्ये गुरु-तातो दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः॥ १ तथा चभ्रान्स्वा नैकेषु देशेषु से वित्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः ॥ १२ हातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्वातत्त्वगवेषिणा ।। अपीता विविधा भाषा भारतीया युरोपजाः । भनेका लिपयोऽप्येवं प्रत्न-नूतनकालिकाः ॥ तेन प्रकाशिता नैके ग्रन्था विद्वत्प्रशंसिताः। लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः ॥ स बहुभिः सुविद्वमिस्तन्मण्डलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ तस्य त विश्रुतिं ज्ञात्वा श्रीमद्गान्धीमहात्मना । माहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहमदाबादे राष्ट्रीयशिक्षणालयः । विद्यापीठ इति ख्यातः प्रतिष्ठितो यदाऽभवत् ॥ भाचार्यत्वेन तत्रोपोनियुक्तः स महात्मना । रस-नि-निधीन्द्वब्दे पुरा त त्वा ख्य मन्दिरे॥ वर्षाणामटकं यावत् सम्भूष्य तत् पदं ततः । गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् ॥ २० तत भागत्य सँल्लमो राष्ट्रकार्य च सक्रियम् । कारावासोऽपि सम्प्राप्तो तेन स्वराज्यपर्वणि ॥ २१ क्रमात ततो विनिर्मक्तः स्थितः शान्तिनिकेतने । विश्ववन्धकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंघी पदयुतं जैन ज्ञान पीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवायम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे ह्येषा प्रारब्धा ग्रन्थमालिका ॥ भयवं विगतं तस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासाय प्रवृत्तिषु प्रयस्यतः॥ बाणे-रव-नवेन्द्रुग्दे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मितौ । कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ बिदषां श्रीमतां योगात संस्था जाता प्रतिष्ठिता। भा र ती य पदोपेत विद्या भवन सज्ञया। भाहूतः सहकाराय सुहृदा स मुनिः कृती । ततः प्रभृति तत्रापि सहयोग प्रदत्तवान् । तअवनेऽन्यदा तस्य सेवाऽधिका झपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्द-निध्याक-चन्द्राब्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावलीस्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभास्वता । भा.वि द्या भ व ना येयं अन्धमाला समर्पिता ॥ प्रदत्ता दशसाहस्त्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ देवादरूपे गते काले सिंघीवर्यो दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थ यत्नशीलैस्तदात्मजैः । राजेन्द्रसिंहमुख्यैश्च सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नाम्ना अन्थागारकृते पुनः । बन्धुज्येष्ठ गुणश्रेष्ठो बर्द्धलक्षं प्रदत्तवान् । प्रन्थमालाप्रसिद्ध्यर्थ पितृवत्तस्य कांक्षितम् । श्रीसिंघीबन्धुभिः सर्व तगिराऽनुविधीयते ॥... विजनकृताहादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिनविजयभारती॥ 9.. . -nurarNMmmmmmmmmm . ..... . . . ......... Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 282