Book Title: Pravachansaroddhar Part 1 Author(s): Nemichandrasuri Publisher: Bharatiya Prachyatattva Prakashan Samiti View full book textPage 7
________________ प्रवचनसारोद्धारे सटीके प्राक दर कथनम् श्रीमद्भिनिर्मित 'जीवकुलकम् ' अत्रैव २१४ तमे द्वारे निवेशितमस्ति । अन्यच्च, उपदेशमालावृत्तिप्रशस्तितो (प्रशस्तिसङ्ग्रह, पृ. २६), ज्ञायते यत् श्रीमद्भिः द्वे जिनचरिते रचिते आस्ताम् , तयोरेकं 'अनन्तनाथचरितम्' (प्राकृतभाषाबद्धम् , अद्यावधि अमृद्रितम्) उपलभ्यते, द्वितीयं तु नोपलभ्यते । टीकाकारपरिचयः तत्वप्रकाशिनीनाम्न्या अतिविशदस्फुटतमाया वृत्तर्विधातारः श्रीमन्तः सिद्धसेनसूरयश्चन्द्रगच्छमलश्चक्रुः ! गुरुपरम्परा तु श्रीमद्भिरेव वृत्तिप्रान्ते दर्शिता, सा चैवम्-'श्रीचन्द्रगच्छगगने......श्रीमदभयदेवसरिरविः...तदनु धनेश्वरमरिः...श्रीमदजितसिंहमूरिः......श्री वर्धमानमूरिः......श्रीचन्द्रप्रभमुनिपतिः ......श्री भद्रेश्वरसूरय......श्रीमदजितसिंह सूरयः......श्रीदेवप्रभसूरिः......श्री सिद्धसेनमूरिः।" वृत्तिरचनाकालस्तु प्रान्ते एवं दर्शितः- "करिसागरविसङ्ख्ये (१२४८) श्रीविक्रमनृपतिवत्सरे चैत्रे । पुष्यार्क दिने शुक्लाष्टम्यां वृत्तिः समाप्ताऽसौ" ||- "जैनपरम्परानो इतिहास' (भा. २) नाम्नि ग्रन्थे (पृ. २९, पृ. ४१७) तु १२७८ तमे वर्षे इति लिखितमस्ति । अत्रेदं ज्ञेयं सागरशब्दः तत्पर्यायाश्च ४-७ द्वयोरङ्कयोरुपयुज्यन्ते (जैनचित्रकम्मद्रुम, पृ. ६७-६८)। जे. सि. प्रत्योस्तु 'करसागररवि'......इति पाठः, तदनुसारं 'जेसलमेरुभाण्डागारस्थग्रन्थानां सुखबोधावृत्तिः,२श्रीमहावीरचरित्रम्" ......... किन्तु, मनन्तनाथचरितग्रन्थप्रशस्तितः स्पष्टं ज्ञायते यद् उत्तराध्ययनवृत्त्यादिकर्तारः श्री नेमिचन्द्रसूरयः प्रवचनसारोद्धार कत भ्यः श्री नेमिचन्द्रसूरिभ्यो मिन्नाः पूर्ववर्तिनश्च ।' १ यद्यपि, अस्मिन्नेव ग्रन्थे एकत्र (पृ. ७७१) 'सं. ११४८ अथवा सं. ११७८.....' इति लिखितमस्ति किन्तु तद भ्रान्त्या लिखितं ज्ञायते, यतः रव्यादि सूर्यपर्यायशब्दाका द्वादशात्मकमङ्कमेव सूचयन्ति ।.... -Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 678