Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
ऽपि च कुर्वन्त्यनेन कस्येति द्वारमुक्तं, फलद्वारं त्वतिरिक्तमिहेति । तत्र 'यथोद्देशं निर्देश' इति न्यायाद् यादृश इति द्वाराभिधानायाह
पावो नाम एस निचं जिणेहिं भणिओ - पावो चंडो रुद्दो खुदो साहसिओ अणारिओ णिग्घिणो णिस्संसो महभओ पइभओ १० अतिभओ बीहणओ तासणओ अणजो उब्वेयणओ य णिरवयक्खो द्धिम्मो णिपिवासो णिक्कलुणो निरयवासगमणनिघणो २० मोहमहभयपयट्टओ मरणावेमणस्सो २२ । पढमं अधम्मदारं ॥ ( सू० १ )
'पाणवहो' इत्यादि, प्राणवधो हिंसा नामेत्यलङ्कृतौ वाक्यस्य एषः - अधिकृतत्वेन प्रत्यक्षो नित्यं सदा न कदाचनापि पापचण्डादिकं वक्ष्यमाणखरूपं परित्यज्य वर्त्तत इति भावना, जिनैः - आसैर्भणितः - उक्तः, किंविध इत्याह- पापप्रकृतीनां बन्धहेतुत्वेन पापः कषायोत्कटपुरुषकार्यत्वाच्चण्डः, रौद्राभिधानरसविशेषप्रवर्त्तितत्वाद्रौद्रः क्षुद्रा-द्रोहका अधमा वा तत्प्रवर्त्तितत्वाच्च क्षुद्रः, सहसा - अवितर्कप्रवर्त्तित इति साहसिकः पुरुषस्तत्प्रवृत्तित्वात् साहसिकः, आराद्याताः पापकर्म्मभ्य इत्यार्यास्तन्निषेधादनार्या- म्लेच्छादयस्तत्प्रवर्त्तितत्वादनार्यः, न विद्यते घृणा - पापजुगुप्सालक्षणा यत्र स निर्घृणः, नृशंसा- निःसुकास्तद्व्यापारत्वात् नृशंसः निष्क्रान्तो वा शंसायाः श्लाघाया इति निःशंसः, महदू भयं यस्मादसौ महाभयः, प्राणिनं प्राणिनं प्रति भयं यस्मात् स प्रतिभयः, भयानि - इहलौकिकादीन्यतिक्रान्तोऽतिभयः, अत एवोक्तं मरणभयं च भयाणं ति
Jain Educational
For Personal & Private Use Only
linelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 332