Book Title: Patan Chaitya Paripati
Author(s): Kalyanvijay
Publisher: Hansvijayji Jain Free Library

View full book text
Previous | Next

Page 117
________________ १०८ शावाडे प्रणमामि भक्तिभरतो रक्तं च मुक्तिस्त्रियां, श्रीनाभेयममेयकीतिकलितं संसारसंतारकम् । मारी येन निवारिता जिनपतिं तं नौमि मुक्त्याः पति, श्रीशांति जगतां जनोपकरणप्रावीण्यबद्धस्पृहम् ॥ १३ ॥ भक्त्यान्वितासु जनतासु नतासु तासु, कारुण्यभावकलितं कलितं मुबोधैः । शावाडगं जिनपति प्रणमामि भक्त्या, बोधैकदानविबुध विबुधोपसेव्यम् ॥ १४॥ जिनं सुपार्श्वनाथं च, पार्श्व तु शामलायम् । भव्याब्जप्रकरे लोके, बांधवं लोकबांधवम् ।। १५ ॥ वंदे शांति जिनपतिमथो शस्तभंसातवाडे, भक्त्या युक्तः कविशिशुरहं शांतिनाथं सनाथम् । नाथेन श्रीवरगणभृतां चात्र चंद्रप्रभेण, प्रासादे वै सुरनरगणैः सेवितं गौतमीये ॥ १६ ॥ श्रीशांतिनाथं नरनाथसेव्य, सनाथतां प्राणिगणे भजंतम् । स्थितं च वंदे तरभेडवाडे, संसाररोगव्यथनैकवैद्यम् ॥१७॥ वंदे जिनं श्रीपतिमादिदेवं, भक्त्या युतः खेजडपाडसंस्थम् । यस्योपरिप्राज्यतरातपत्रं,रौप्यं च मुक्त्यस्तकटाक्षतुल्यम् ॥१८॥ कर्पूरमेताभिधशस्यपाडे, स्तुवे जिनेशं वृषभध्वजं च । कर्माग्निदाहैकजलाभिषेकं, कषायक्षेषु दवाग्मितुल्यम् ॥१९॥ तंबोलिचाडे प्रभुमानमामि, श्रीवर्द्धमानं च सुपार्धनाथम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134