Book Title: Nyayasara
Author(s): Bhasarvagna Acharya, Jaysinhsuri, Satish Chandra Vidyabhushan
Publisher: Asiatic Society

View full book text
Previous | Next

Page 297
________________ २७२ न्यायतात्पर्य दीपिका। भुञ्जीत विषयान् कश्चित्कश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्य्यस्तेजोगणानिव ॥ इति यदा क्षेत्रज्ञस्य पुरुषायुषात्क माण्य धिकानि भवन्ति । तदा विशिष्टाङ्गयोगबलेन युगपद्दनि शरीराणि सृष्ट्वा तैश्च कश्चिद्भोगान् भुक्ता कैश्चित्तपस्तावा च प्रक्षीणेषु सर्वकर्मसु तानि पुनरात्मा मंहरति । यथा सूर्य: स्वतेजांसि प्रसार्य पुनः संहरति । तथेत्यर्थः ॥ १२१ ॥ उपसंहरति । तदेवमपरात्मतत्त्वज्ञानपरलोकसदावन परलोके प्रवृत्त्य्पयोगित्वाधर्मक्षयहेतुत्वाच्च निःश्रेयसाङ्गमितीति ॥ तदेवं पूर्वोक्तयुक्त्या व्यवस्थापितमपरमात्मनो जीवस्य तत्त्वज्ञानं यथावस्थित स्वरूपावबोधः। स्वर्गापवर्गरूपपरलोकास्तिखेन परलोके स्वर्गादिविषये तपःसंयमनियमोपासनलक्षणप्रवृत्त्यपकारित्वात्। अधर्मः पापं तत्क्षय हतुवाच नि:थेयसस्य मोक्षस्थोपायो भवति । परलोकसहावेनेति पदं परलोकार्टतपःसंयमादिप्रवृत्तिनिमित्तार्थम् । यदि प्राक् परलोकोऽस्तौति न प्रतिपद्येत तर्हि तपस्याप्रवृत्तिभिः कष्टैः कः वञ्चिक्लिश्येतात्मतत्त्वज्ञाने स्फुरिते स्वर्गादिपरलोके स्वीकृत तप:संयमादिना यामनि प्रलीने मोक्षो भवतीत्यर्थः ॥ १२२ ॥ अथ परमात्मज्ञानस्य मोक्षाङ्गत्वं लक्षयति । परमात्मज्ञानं च तदुपासनाङ्गत्वेनापवर्गसाधनमितीति ॥ तस्य परमात्मन उपासनाङ्गमाराधनोपायस्तावेन परमात्म Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356