Book Title: Nyayasara
Author(s): Bhasarvagna Acharya, Jaysinhsuri, Satish Chandra Vidyabhushan
Publisher: Asiatic Society

View full book text
Previous | Next

Page 313
________________ न्यायतात्पर्य दीपिका । योगेनाग्निशब्द उपचारिकः । अत्र च मोक्षे माणवकेऽग्निशब्दस्येव सुखानन्दमन्दयोरौपचारिको वृत्तिर्न भवति । सुखानन्द शब्दवाच्यस्य सन्तोषाह्लादरूपत्य मुख्यास्य बाधायोगात् । मोक्षे सुखानन्दशब्दयोः स्ववाच्यं वाचयतोर्न किञ्चिद्दाधकमिति भावः । प्रयोगश्चात्र सुखानन्दगन्दौ मोक्षे साक्षात् स्ववाच्यवाचको मुख्यार्थे बाधकाभावात् घटे घटशब्दवदिति ॥ १५४ ॥ परोक्त मुख्यार्थबाधं शङ्कते । २८८ *सुख संवेदनयोर्नित्यत्वात् मुक्तसंसारिणी रविशेषप्रसङ्ग इति चेदिति ॥ न सुखं परमानन्दरूपं संवेदना ज्ञानम् । तयोर्नित्यत्वान्मुक्तात्मनः संसारिणश्चाविशेष: प्रसज्येत । सुखसंवेदनयोर्नित्यभावेन मुक्तस्यैव संसारिणोऽपि तत्सम्भवात् । अयमर्थः । मुक्तस्य ये सुखसंवेदने ते किमनित्ये नित्ये वा । न तावदनित्ये सुखसंवेदनयोविनाशेन पुनर्दुःखात्पादान्मुक्तस्यापि संसारित्वप्रसङ्गः । नित्ये चेत्तर्हि तयोरात्मगुणत्वेन सर्वदात्मना सह सम्बन्धान्मुक्तात्मनोव संसारिण्यपि ते व्यक्ती भवतोऽन्यथा नित्यत्वनाशात् । संसारिण्यपि च ताक्ती मुक्तस्य संसारिण्याविशेषः प्रसज्येत । ततः सुखानन्दशब्दयोर्मुख्यार्थ प्रसङ्गबाधक सद्भावात् स्ववाच्ये औपचारिको क वृत्तिः ॥ १५५ ॥ The Text adds "अन्यथा" in the beginning of this aphorism ( See page 40. Live 14 ). * Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356