________________
न्यायतात्पर्य दीपिका ।
योगेनाग्निशब्द उपचारिकः । अत्र च मोक्षे माणवकेऽग्निशब्दस्येव सुखानन्दमन्दयोरौपचारिको वृत्तिर्न भवति । सुखानन्द शब्दवाच्यस्य सन्तोषाह्लादरूपत्य मुख्यास्य बाधायोगात् । मोक्षे सुखानन्दशब्दयोः स्ववाच्यं वाचयतोर्न किञ्चिद्दाधकमिति भावः । प्रयोगश्चात्र सुखानन्दगन्दौ मोक्षे साक्षात् स्ववाच्यवाचको मुख्यार्थे बाधकाभावात् घटे घटशब्दवदिति ॥ १५४ ॥
परोक्त मुख्यार्थबाधं शङ्कते ।
२८८
*सुख संवेदनयोर्नित्यत्वात् मुक्तसंसारिणी रविशेषप्रसङ्ग इति चेदिति ॥
न सुखं परमानन्दरूपं संवेदना ज्ञानम् । तयोर्नित्यत्वान्मुक्तात्मनः संसारिणश्चाविशेष: प्रसज्येत । सुखसंवेदनयोर्नित्यभावेन मुक्तस्यैव संसारिणोऽपि तत्सम्भवात् । अयमर्थः । मुक्तस्य ये सुखसंवेदने ते किमनित्ये नित्ये वा । न तावदनित्ये सुखसंवेदनयोविनाशेन पुनर्दुःखात्पादान्मुक्तस्यापि संसारित्वप्रसङ्गः । नित्ये चेत्तर्हि तयोरात्मगुणत्वेन सर्वदात्मना सह सम्बन्धान्मुक्तात्मनोव संसारिण्यपि ते व्यक्ती भवतोऽन्यथा नित्यत्वनाशात् । संसारिण्यपि च ताक्ती मुक्तस्य संसारिण्याविशेषः प्रसज्येत । ततः सुखानन्दशब्दयोर्मुख्यार्थ प्रसङ्गबाधक सद्भावात् स्ववाच्ये औपचारिको क वृत्तिः ॥ १५५ ॥
The Text adds "अन्यथा" in the beginning of this aphorism ( See page 40. Live 14 ).
*
Aho! Shrutgyanam