________________
श्रागमपरिच्छेदः ।
ननु नवानां विशिष्टगुणानां सन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात् प्रदीपसन्तानवदिति प्रागुक्तेनानुमानेनायमागमी बाधियत इति चेन्न । विकल्पाक्षमत्वात् । तथाहि किमिदं सन्तानत्वं नाम । किं काय्र्यकारणभावेन प्रवृत्तिरेकाधारापरापरोत्पत्तिर्वा । नाचः पक्षस्ताहचसन्तानस्य भवतामनभ्युपगमात् । यैस्तु बौद्धैस्तादृशः सन्तानोऽभ्युपगम्यते तेषां मतेऽपि काव्यकारणभावेन प्रवर्त्तमानानां बुझादिक्षणानां मुक्तावपि निर्मलतया पुनरुत्पादेन सर्वथा सन्तानानुच्छेदात् । न द्वितीयः । प्रदीपादौ तादृक् सन्तानत्वाभावेन दृष्टान्तस्य साधनवैकल्यापातात् । तथाविधसन्तानत्वसद्भावेऽपि चात्यन्तोच्छेदाभावात् परमाणुपाकजरूपादिभिर्हेतुर्व्यभिचारी । शब्दबुद्धिविद्युदादिष्वत्यन्तानुच्छेदवत्सन्तानत्वस्य स्थितत्वादिरुद्धः । सन्तानोऽपि नोच्छिद्येत च विपर्ययें बाधकाभावादित्यनैकान्तिकोऽपीत्यलं
२८७
Aho ! Shrutgyanam
स्यादत्यन्तं
प्रसङ्गेन ॥ १५३ ॥
मुक्तस्य दुःखाभावे सुखानन्दशब्दावौपचारिकावित्याशङ्का परिहरति ।
मुख्यार्थ बाधकाभावान्रोपचार कल्पनेति ॥
मोचे सुखानन्दशब्दयोरुपचारकल्पना गौणी वृत्तिर्न भवति । अत्र हेतुः । मुख्यार्थे खखाभिधाव्यापारवाच्ये सुखाह्नादरूपे बाधक प्रमाणाभावात् । श्रयमर्थः । शब्दप्रवृत्तिर्द्विधा मुख्यवृत्त्योपचारवृत्त्या च । यत्र मुख्यार्थबाधस्तत्रौपचारिको । यथा माणवकोऽग्निरित्यत्र माणवके दाहकत्वस्य मुख्यार्थस्य बाधात् दुईरक्रोध