________________
आगमपरिच्छेदः ।
२८८
परिहरति ।
यथा
न चक्षुर्घटयोः कुडयादेवि सुखसंवेदनयोर्विषय विषयसम्बन्धप्रत्यनीकस्य दुःखादेः संसारावस्थायां सम्भवात् तन्नाशे च मुक्तावस्थायां भवति सुख संवेदनयोः सम्बन्ध इत्यतो नाविशेष इति ॥ चक्षुर्घटयोर्विषयविषयि सम्बन्ध प्रत्यनीकस्य कुड्यादेः सम्भवान्मिथः सम्बन्धो न भवति । तथा संसारावस्थायां सुखसंवेदनयोर्विषयविषयि सम्बन्ध प्रत्यनीकस्य दुःखादेः सम्भवान्मुक्तावस्थायां तन्नाशे विषयविषयि सम्बन्ध प्रत्यनीकदुःखादिनाशेऽतिसुखसंवेदनयोः सम्बन्धो भवत्यतो हेतोर्मुकसंसारिणोरविशेषप्रखङ्गो न भवति । अयमर्थः । चतुर्विषयि घटो विषयः तयो - रन्तरा भित्यादौ सम्बन्धप्रतिबन्धके सति यथा मिथः सम्बन्धो न भवत्येवं संसारे संसारियो विषयविषयिरूपयोः सुखसंवेदनयोविषयविषयि सम्बन्धप्रतिकूलपापोचयवशात् दुःखादिकमुदीयते । तस्मिन् सति तत्सम्बन्धो न भवति । यदा तु चक्षुर्घटयोरपि कुड्यादिव्यपगमस्तदा यथा तत्सम्बन्धः स्यात्तथाष्टाङ्गयोगपरिपुष्टपुण्यवशात् दुःखादिनायें जाते सुखसंवेदनयोः सम्बन्धः सम्पद्यते । दुःखादिनाशश्च सर्वथा मुक्तस्यैव नान्यस्येति त्वदुक्को मुक्त संसारियोस्तौ ल्यप्रसङ्गो न युक्त इति ॥ १५६ ॥
पुनः परमतमाशङ्कते ।
तस्य सम्बन्धस्य कृतकत्वेन कदाचिन्नाशप्रसङ्ग इति चेदिति ॥ तस्य सुखसंवेदनयोः सम्बन्धस्य संसारावस्थायामभूत्वा मुक्ताभवतः सतः कृतकत्वम् । यस्तु क्वतकः सोऽवश्यं
वस्थायां
ইত
Aho ! Shrutgyanam